SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २१६ सिरहेमलघुत्तौ। [मिलीयाध्यायस्य कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतन्या ग्राममजा मैत्रेण ॥ तृन्नुदन्ताव्ययकस्वानातृश्शतुङिणकच्खलर्थस्य ॥ ९ ॥ तृन्नादीनां कृतां कर्मकोंः षष्ठी न स्यात् । तृन्-वदिता जनापवादान् । उदन्तः कन्यामलङ्करिष्णुः, श्रद्धालुस्तत्त्वम् । अव्ययं-कटं कृत्वा, ओदनं भोक्तुं व्रजति । वसुः-ओदनं पेचिवान् । आनः-कटं चक्राणः मलयं पवमानः, ओदनं पचमानः, चैत्रेण पच्यमानः । अतृश्-अधीयस्तत्त्वाथम् । शतृ-कटं कुर्वन् । ङि-परीषहान् सासहिः । णकच्-कटं कारको व्रजति । खलर्थः-ईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया ॥ क्तयोरसदाधारे ॥ ९१ ॥ सतो वर्तमानादाधाराच्चान्यत्रार्थे यौ क्तक्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । कटः कृतो मैत्रेण, ग्राम गतवान् । असदाधार इति किम् ? राज्ञां पूजितः, इदं सक्तूनां पीतम् ॥ वा क्लीबे ॥ ९२ ।। क्लीबे विहितस्य तस्य कर्चरि षष्ठी क्यम् ॥ उदन्ते येषां ते उदन्ताः, खलोऽर्थो येषान्ते खलाः, तृन्च उदन्ताश्चाव्ययश्च कसुश्वानश्चातृश्च शतृ च ङिश्च णकच्च स्वलर्थाश्च तस्य ॥ नोभयोरित्यनुवर्तते । कर्मणि कृतः कर्तरीति च प्राप्तायाः षष्ठया अपवादः । वदिता जनापवादानिति वदधातोः 'तृन् शीलधर्मसाधुष्वि 'ति सूत्रेण शीलाद्यर्थे तुनि कृते वदिता, तत्कमणोऽपवादस्य कर्मणि कृत इति प्राप्तायाः षष्ठया अनेन निषेधः । आन इत्यनुबन्धमुत्सृज्य निर्देशात्सामान्यग्रहणं तेन कानशानानशां ग्रहणमत एव क्रमेणोदाहरणत्रयं बोध्यम् ॥ तावयवयोगात् क्तवतुरपि क्तः, क्तश्च क्तश्च को, स्यादावसङ्ख्येय इत्येक शेषस्तयोः षष्ठी, संश्वाधारश्च सदाधारः, न सदाधारस्तस्मिन् ॥ नोभयोरित्यनुवर्तते । कृत इत्यादौ भूते क्तः, प्रत्युदाहरणे राज्ञां पूजित इत्यादौ वर्तमाने क्तः, पीतमित्यत्राधारे क्तः ॥ वा, क्लीबे ॥ कयोरिति कर्तरीति चैकदेशो नेति चानुवर्तते, तेन कवतुप्रत्ययस्य कर्मणश्च न ग्रहणम् । कोबे क्त इत्यनेन
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy