________________
अवचूरिपरिष्कारसहितायाम् ।
"
रिरिष्टात्स्तादस्तादसतसाता ॥ ८२ ॥ एतत्प्रत्ययान्तैर्युतात् षष्ठी स्यात् । उपरि ग्रामस्य उपरिष्टात् परस्तात्, पुरस्तात्, पुरः, दक्षिणतः, उत्तराद्वा ग्रामस्य ॥ कर्म्मणि कृतः ॥ ८३ ॥ कृदन्तस्य कर्म्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां दोहः । कर्म्मणीति शिक्षित इत्यादौ शिक्षकशिक्षणीयभावः, न ते सुखस्य जानत इति ज्ञानज्ञेयभावः, न तस्य सायमश्रीयादित्यादौ भोज्य भोजकभावः, अन्नस्य नो देहीति दानदेयभावः, अक्षाणां दीव्यतीति देवनद्यूतभावः, नतः पृष्ठ ददातीत्यादौ प्रहार्यप्रहरणभावः, नटस्य शृणोतीत्यादौ श्रवणश्रवणावधिभावः, वृक्षस्य पर्णं पततीत्यादौ पतनपतनावधिभावसम्बन्धः, महतां विभाषत इत्यादौ विभाष्यविभाषणभावसम्बन्ध इत्येवं सम्बन्धाः स्वयं विज्ञेयाः । प्रथमापवादोऽयं योगः ॥ रिश्व रिष्टाच स्ताच्चास्ताच्चास् चातस् चाच्च तेन ।। ऊर्ध्वे देशे वसतीत्युपर्युपरि - ष्टात् 'ऊर्ध्वादिति रिरिष्टात्प्रत्ययौ । पूर्वस्मिन्देशे पूर्वस्यां दिशि वा पुरस्तात्पुरः, पूर्वावशधरेभ्य इत्यस्तादस्प्रत्ययौ । दक्षिणत इति, दक्षिणोत्तराश्चेत्यतस्प्रत्ययः | उत्तरादिति, अधरापराचेत्यात्प्रत्ययः । प्रभृत्यन्यार्थेति सूत्रेण प्राप्तायाः पञ्चम्या अपवादोऽयम् ॥ कर्मणि, कृतः षष्ठी ॥ नेयं शेषषष्ठी, सूत्रस्यास्य वैयर्थ्यापत्तेः, किन्तु कर्मणि षष्ठी, अतो द्वितीयापवादोऽयम् । अपां स्रष्टा, अत्र कर्मणः षष्ठी ! गवां दोहः, गौणकर्मणः षष्ठी । स्तोकं पक्ता क्रियाविशेषणस्यापि कर्मत्वाभावान्न भवति । नन्विह कर्मणा क्रियाऽऽक्षिप्यते, तया विना तद्भावात् क्रियावाचि तु धातुरेव तस्माच्च कृत्प्रत्ययास्तिव्प्रत्यया वा भवन्ति, तत्र तिवन्तधातुप्रयोगे घटं करोतीत्यादिप्रयोगदर्शनाद्वितीयाविधानसार्थक्याच्च तत्र षष्ठयप्राप्तौ पारिशेष्यात्कृद्योगे एव कर्मणि षष्ठी भविष्यति, तस्मात्किं कृग्रहणेनेत्याशयेनाशङ्कते - कृत इति किमिति । भुक्तपूर्वीति, भुक्तं पूर्वमनेनेति भुक्तपूर्वी पूर्वं भुक्तवानित्यर्थः, 'पूर्व
S
"
9
द्वितीयपाद: ]
२१३
-