________________
२१२
सिद्धहेमलघुवृत्तौ
[द्वितीयाध्यायस्य
अतः सम्बन्धस्य बहिरङ्गत्वात्पुरुषादन्तरङ्गा प्रथमैव । यद्यपि स्वामित्ववद्वाचकं पदं नोपादीयते तथापि तत्सामान्यतः स्वमात्रनिरूपितं पुरुषशब्दसन्निधौ तु स्वविशेषप्रतिपत्तिः । ननु स्वामित्वप्रतिपिपादयिषायां राजा स्वामीति प्रयुज्यतां किमिति षष्ठीप्रयोगः ? प्रयोगाप्रयोगयोर्विषयविभागश्च कः ? सामान्यनिरूपितं स्वत्वञ्च कथम् ? इति चेदुच्यते, यथा नामार्थानां क्रियासामान्यनिरूपिता विशेषा विवक्ष्यन्ते तत्कृताश्च कर्म करणमपादानं सम्प्रदानमधिकरणमित्याख्याः शक्तयः प्रादुर्भवन्ति, ताश्च पुनर्विभक्तीनामुत्पत्तौ निमित्तं भवन्ति । यदा च नामार्थस्य क्रियादेश विवक्षायां शक्तिलक्षणोऽर्थातिरेको भवति, तदा शक्तयो नामार्थतां न प्रतिपद्यन्त इति विभक्तय उत्पद्यन्ते । यदा च स्वार्थनिरूपितविशेष्यतया नामार्थो विवक्षितस्तदा ताश्शक्तयः कम्र्मेत्यादिसंज्ञामेव प्राप्ताः, न तु विभक्त्युत्पत्तिं प्रयोजयन्ति, तथैव स्वापेक्षया राज्ञ इति स्वनिष्ठत्वाश्रयेण च राजा स्वामीति भवति, न च राजनि यथा स्वकृतस्वामित्वस्य सत्त्वात्षष्ठी भवति, तथा पुरुषेऽपि स्वामिकृतस्य स्वत्वस्य सत्त्वेन षष्ठी स्यादिति वाच्यम् , सम्बन्धस्य द्विष्ठत्वेन राजशब्दादुत्पद्यमानषष्ठयाभिहितत्वेन पुरुषशब्दात्तदप्राप्तेः । यदा तु पुरुषस्य गुणभावेन विवक्ष्यते, राज्ञस्तु विशेष्यतया तदा पुरुषस्य राजेति भवति । राज्ञः पुरुषस्य कम्बल इत्यादावपि राजा. पेक्षया पुरुषस्य प्राधान्येऽपि कम्बलापेक्षया गौणत्वात्षष्ठी। सम्बन्धश्चानेकविधः, यथा राज्ञः पुरुष इत्यादौ स्वस्वामिभावसम्बन्धः, उपगोरपत्यमित्यादौ जन्यजनकभावः, पशोः पाद इत्यादाववयवावयविभावः, वृक्षस्य शाखेयादावाधाराधेयभावः, क्षीरस्य विकार इत्यादौ प्रकृतिविकृतिभावः, गवां समूह इत्यादौ समूहसमूहिभावः, कुम्भस्य समीपमित्यादौ समीपसमीपिभावः, पृथिव्याः स्वामीत्यादौ पाल्यपालकभावः, माषाणामनीयादित्यादौ भोज्यभोजकभावः, सुभाषितस्य