SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवचूरिपरिष्कार सहितायाम् । २११ स्तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम्, भाषाणामश्नीयात् ॥ प्रथमा न स्यात्, नामार्थमात्रे हि प्रथमा विधीयते, पुरुषपदाच्च सम्बन्धस्याधिकस्य भावादिति वाच्यम्, तत्राधिकस्य वाक्यार्थत्वाद्राज्ञ इत्यादिपदान्तरसन्निधाने एव तस्य प्रतीयमानत्वात्, पुरुषपदन्तु स्वार्थमात्र एव वर्तत इति नामार्थे प्रथमा भवत्येव । न च राजनि यदाधिक्यं भासते सोऽपि वाक्यार्थः कुतो न स्यात्, पुरुषशब्दसन्निधाने एव राज्ञ आधिक्यस्य प्रतिभासनादिति वाच्यम्, पुरुषपदासमभिव्याहारेsपि केवलाद्राज्ञ इत्यस्मादनियतविशेष्यनिरूपितत्वेन सम्बन्धित्वं गम्यते एव, राजा हि परोपकारित्वेन विवक्षितो न स्वार्थनिरूपितविशेष्यतया, पुरुषे तु राजशब्दप्रयोगं विना नाधिक्यं प्रतीयत इति पुरुषनिष्ठमाधिक्यं वाक्यार्थ एव, राजशब्दाद्धि षष्ठया उच्चारणं न तु पुरुषशब्दात् । न च राज्ञ इत्युच्चारणमात्रादेव राजनि आधिक्यमस्तीति वकुं युक्तमर्थस्यैव शब्दोच्चारणप्रयोजकत्वात्, न त्वर्थस्य शब्दकृतत्वमिति वाच्यम्, अन्तरेणापि पुरुषशब्दस्य प्रयोगं राजनि तदर्थस्य गम्यमानत्वात्, सोऽर्थो हि विशेषणत्वं स्वामित्वलक्षणो वाऽन्यो वा कश्चित्सम्बन्धः, स च सम्बन्धो यद्यपि द्विष्ठस्तथापि तस्य विशेषणतानियामकतया भेदे सति विशेषणतया विवक्षितस्य सम्बन्धं विना विशेषणत्वासम्भवेन तदाऽऽकाङ्क्षित्तत्वात्तत्र सम्बन्ध उद्भूतत्वेन प्रतीयत इति तत्र षष्ठी, विशेष्ये तु पदान्तरासमभिव्याहारे स्वार्थनिरूपितविशेष्यत्वेन भासमानत्वरूपस्वनिष्ठत्वादेव न विशेष्यता नियामकसम्बन्धाकाङ्क्षा, तत्र विशेषणे शब्देन षष्ठ्यादिनांऽशेन प्रतीयमानस्सम्बन्धः प्रधाने पुरुषेऽप्युपयुज्यते, तस्य द्विष्ठ - त्वस्वभावत्वात्। राज्ञ इत्यादेस्तु पदान्तरसमभिव्याहारं विनाप्यध्याहृतसम्बन्धिसामान्यनिरूपित विशेषणत्वप्रतीतिरिति विशेषः । राज्ञ इति हि स्वामित्वमवगम्यमानमन्यथाऽनुपपत्त्यैव पुरुषे स्वत्वमवगमयति,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy