________________
२१०
सिद्धहेमलघुवृत्ती। द्वितीयाध्यायस्य कर्मादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धो विशेषः शेषशाखा, पशोः पादः, पितुः पुत्र इत्यादावश्रूयमाणक्रियाविषये स्वस्वामिभावावयवावयविभावजन्यजनकभावादौ सम्बन्धे पूर्वभाविका. रकत्वमुत्तरावस्थायामप्यनुगतमिति भवत्येव स शेषः । कारके राजा पुरुषाय ददातीति राजपुरुषो कर्तृसम्प्रदानरूपावभूताम् । राज्ञः पुरुष इत्यत्र तु तन्मूलकस्वस्वामिभावप्रतीतौ कादिविशेषरूपताऽनवगमा. च्छेषता, अत एव सामान्यकारकत्वमवतिष्ठते । एवञ्च तत्र क्रियाकारकसम्बन्धः कारणभूतः, शेषसम्बन्धस्तु फलभूतः । क्रियाकारकसम्बन्धो हि वृत्तः स्वाश्रये शेषसम्बन्धफलं निविश्योपरमते । अत्राश्रूयमाणा दानादिक्रिया सम्बन्धलक्षणकार्याऽनुपपत्त्यानुमीयमाना सन्निहिता इति तन्मुखेन समन्वयः, सिद्धस्वभावानां द्रव्याणां क्रियामन्तरेण परस्परं सम्बन्धाभावात् । क्रिया हि नि:श्रयणीव सम्बन्धं करोति, एवञ्च सम्बन्धिनोरप्यनुमीयमानक्रियानिमित्तत्वरूपं कारकत्वमस्तीत्यश्रूयमाणक्रियः क्रियाकारकपूर्वकः शेषलक्षणसम्बन्ध उक्तः । एवं ग्रामस्य समीपादागच्छति वृक्षस्य पणं पततीत्यादावागमनादिक्रियां प्रति ग्रामादेरप्यस्त्येव समीपभावादौ सम्बन्धे क्रियाकारकपूर्वकत्वम् । समीपस्य हि ग्राम आश्रयः, एवं पर्णस्य वृक्षः, आगमनादिक्रियां प्रति तु प्रामादेरकारकत्वमुच्यते । एवं मातुःस्मरतीत्यत्रापि मातुः स्मरणकर्मत्वे सति कर्मत्वाविवक्षायां तन्मूलको मातृस्मरणयोर्विषयविषयीभावो निमित्तनिमित्तीभावो वा सम्बन्ध इति स एव सम्बन्धः शेष इति श्रूयमाणक्रियः कर्मत्वाद्यविवक्षालक्षणः क्रियाकारकपूर्वकस्सम्बन्धविशेषः शेष उक्तः । न च सम्बन्धस्य द्विष्ठत्वाद्वाभ्यामपि सम्बन्धिभ्यां षष्ठी स्यादिति वाच्यम् , गौणस्यैव भावात्, राजा हि गुणभूतः, पुरुषस्तु प्रधानं तस्य प्राधान्यच्चाख्यातपदसामानाधिकरण्यात् । न च पुरुषपदात्प्रधानादपि