SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अधरिपरिष्कारसहितायाम् । २०९ 1 पयेन वा मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः ॥ अज्ञाने ज्ञः षष्ठी ॥ ८० ॥ अज्ञानार्थस्य ज्ञो यत्करणं तद्वाचिन एकद्विबहौ यथासङ्ख्यं ङसोसाम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः सर्पिषोः सर्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव ? तैलं सप्पिषो जानाति ॥ शेषे ॥ ८१ ॥ वत्केवलधर्मपरा अपि, एवञ्चासत्त्ववचनता । सत्त्वञ्च सर्वनाम - परामर्शयोग्यत्वं लिङ्गादिनिरूपितविशेष्यत्वं वा । स्तोकान्मुक्त इति, पक्षे हेतुकर्तृकरणेति करणे तृतीया । अत्र स्तोकलक्षणो धर्मः सन्नसन् वा मुक्तिक्रियायामतिशयेनोपकारक इति करणं भवति । स्तोकेन विषेण हत इति, अत्र धर्मिवचनः स्तोकशब्दस्तेन स्तोकेन विषेणेति सामानाधिकरण्यमतो नासत्त्ववृत्तिः ॥ अज्ञाने, ज्ञः षष्ठी, षष्ठी ॥ करण इति गौणान्नान्न एकद्विबहाविति च सम्बध्यते । नवेति निवृत्तं भिन्नविभक्तिविधानात् । सर्पिषो जानीते, सर्पिषा करणभूतेन प्रवर्तत इत्यर्थः, अनेकार्थत्वाद्धातूनामत्र जानातिः प्रवृत्तौ वर्तते । तत्र सर्पिरादिः साधकतमो भोजनादिवस्तुप्रवृत्तेर्विषयस्तेनाकर्मकत्वात् 'ज्ञ' इत्यात्मनेपदम्, अथवा ज्ञानसामान्यवाचिज्ञाधातुरस्तु, ज्ञानञ्च सम्यग्ज्ञानं मिथ्याज्ञानञ्चेति द्विविधं तत्र मिथ्याज्ञानमज्ञानमेव, तथा च सर्पिषो जानीत इत्यत्र सर्पिषि रक्तो विरक्तो वा चित्तभ्रान्त्या सर्वमेवोदकादि सर्परूपेण प्रतिपद्यत इत्यर्थः । तैलं सर्पिषो जानातीति तैलं सर्परूपतया प्रतिपद्यते, अत्र तैलात्कर्मणः षष्ठी न स्यात्, सर्पिषस्तु करणाद्भवत्येवेति तृतीयापवादो योगः ॥ शेषे ॥ कर्म्मादिविशेषलक्षणेभ्यः षड्भ्यः कारकेभ्योऽन्यः सम्बन्धः शेषः । स्वस्वामिभावसम्बन्धस्य कर्मादिविशेषलक्षणेभ्योऽन्यत्वाच्छेषत्वम् । क्रियाकारकपूर्वकत्वाच्च कारकत्वम् । तथाहि - राज्ञः पुरुषः, वृक्षस्य । २७
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy