SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २०८ सिद्धहेमलघुत्तो. - [द्वितीयाध्यायस्य वाचिनः पञ्चमी वा स्यात् । जाड्यात् जाड्येन वा बद्धः, ज्ञानात् ज्ञानेन वा मुक्तः । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः ॥ आरादथैः ॥७८॥ आराङ्करमन्तिकं च तदर्थैर्युक्तात्पञ्चमी वा स्यात् । दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा । अन्तिकमभ्यास वा प्रामाद् ग्रामस्य वा ॥ स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे ॥७९ ॥ यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं, तेनैव वा रूपेणाभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा, कतिपयात्कतिरिति वर्तते । अस्त्यत्राग्निधूमादित्यादौ नाग्न्यादेधूमादिहेतुः, किन्त्वमिज्ञानस्य । पञ्चमी तु 'गम्ययपः कर्माधार' इति भविष्यति, धूमादिकमुपलभ्याग्निः प्रतिपत्तव्य इति तस्यार्थः । ज्ञानहेतुत्वविवक्षायान्तु हेतुत्वलक्षणा तृतीया भवति धूमेनाग्निरिति, ज्ञाननिष्ठजन्यजनकभावस्य विषये आरोपाद्वा पञ्चमीति केचित् ॥ आरादर्थो येषान्ते तैः ॥ आरादित्यव्ययं दूरान्तिकयोस्साधारण्येन वर्तते, तयोरेवात्र तन्त्रेण ग्रहणम् , एकप्रयत्नेनानेकार्थसाधकं शास्त्रं तन्त्रम् , दूरान्तिकार्थवाचिशब्दयोगे एव विकल्पेन पञ्चमी विधानं न त्वाराच्छब्दयोगे, तत्र प्रभृत्यादिसूत्रेण नित्यं पञ्चमीविधानाद्दरदेशवृत्तित्वं दूरशब्दार्थः, षष्ठयर्थः सम्बन्धः, ग्रामसम्बन्धिदूरदेशवृत्तिरित्यर्थः, एवं ग्रामसम्बन्धिसमीपदेशवृत्तीत्यपि बोध्यम् ॥ स्तोकञ्चाल्पञ्च कृच्छ्रञ्च कतिपयञ्च तस्मात्, सतो भावस्सत्त्वं न सत्त्वमसत्त्वं तस्मिन्करणे ॥ अनन्तपर्यायात्मके हि द्रव्ये प्रवर्तमानः शब्दः कश्चि. देव स्वभावमादाय प्रवर्तते, तत्र यो द्रव्ये स्तोकादिशब्दप्रवृत्तिनिमित्तभूतः पर्यायः स द्रव्ये विशेषणतया प्रतीयमानत्वाद्गुणः क्रिया वाऽसत्त्वमुच्यते, तद्रूपेणाभिधीयमानं द्रव्यादि तस्मिन्करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । एते स्तोकादयश्शुक्लादिशब्द
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy