________________
द्वितीयपादः] अषधरिपरिकारसहितायाम्। २०७ ।। ७५ ॥ प्रभृत्यर्थैरन्याथैर्दिक्शब्दैर्बहिरादिभिश्च युक्तात्पञ्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य, अन्यो भिन्नो वा मैत्रात् , ग्रामात्पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाधुधिष्ठिरः, बहिः आरात् इतरो वा ग्रामात् ॥ ऋणाद्धेतोः ॥ ७६ ॥ हेतुभूतऋणवाचिनः पञ्चमी स्यात् । शताद् बद्धः । हेतोरिति किम् ? शतेन बद्धः ।। गुणादस्त्रियां नवा ।। ७७॥ अस्त्रीवृत्तेर्हेतुभूतगुणस्तेन क्वाप्रत्ययान्तस्य शब्दस्यापि गम्यत्वे पञ्चमी भवति, यथाऽऽसने स्थित्वा प्रेक्षते इत्यर्थे आसनात्प्रेक्षते इति ।। प्रभृतिश्चान्यश्च तयोरर्थो येषान्ते प्रभृत्यन्यार्थाः, दिशि दृष्टाश्शब्दा दिक्शब्दाः, मयूरव्यंसकादित्वाद् दृष्टस्य लोपः, प्रभृत्यन्यार्थाश्च दिक्शब्दाश्च बहिश्वाराचेतरश्च तैः ॥ अर्थशब्दः प्रभृतिशब्देनान्यशब्देन च सह सम्बध्यते । ततः प्रभृतीति तदवधिमादाय, मैत्रादन्य इत्यादौ स्व. प्रतियोगिकभेदसम्बन्धः पञ्चम्यर्थस्तेन प्रकृत्यर्थस्यान्यस्यान्वयः। मैत्रविलक्षण इति वाऽर्थः । दिशि दिग्विशेषे ये रूढ्या वाचकत्वेन दृष्टास्ते इह दिक्शब्दा विज्ञायन्ते, न तु दिशि वर्तमाना एवेति देशकालादिवृत्तिनापि भवति, न त्वैन्द्रीकेवलदिक्ककुबादितो भवति । अवयववाचित्वेऽपि न भवति, यथाऽयं कायस्य पूर्वो भागः । देशे यथोत्तरो विन्ध्यात्पारियात्रः। द्रव्ये यथा पश्चिमो रामाद्युधिष्ठिरः । आरादित्यव्ययं दूरसमीपयोर्वाचकं तेन तद्योगे वक्ष्यमाणस्यारादथैरिति विकल्पस्यापवादोऽयम् , इतरशब्दो द्वयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्थाद्भिद्यते ॥ ऋणात, हेतोः पश्चमी ॥ शताबद्धः, अत्रोत्तमर्णायाधमणेन धार्यमाणं शतं बन्धनस्यानाविष्टव्यापारतया निमित्तभूतम् , लौकिको हेतुस्ततस्तृतीया बाधिकानेन पञ्चमी विधीयते । हेतुहेतुमद्भावः पञ्चम्यर्थः, शतहेतुकबन्धनकर्मेति बोधः । शतेन बद्ध इति, शतं ऋणं बन्धकत्वेन विवक्षितमिति कर्तरि तृतीया । गुणात् , न स्त्री अस्त्री तस्यां नवा ॥ हेतो