________________
२०६
सिद्धहेमलघुवृत्तौ। [ द्वितीयाध्यायस्य प्रति माषानस्मै प्रयच्छति ॥ आख्यातयुपयोगे ॥७३॥ आख्याता प्रतिपादयिता तद्वाचिनः पञ्चमी स्यात् , उपयोगे नियमपूर्वकविद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् ? नटस्य शृणोति ॥ गम्ययपः कर्माधारे ॥ ७४ ॥ गम्यस्याप्रयुज्यमानस्य यवन्तस्य कर्माऽऽधारवाचिनः पञ्चमी स्यात् । प्रासादादासनाद्वा प्रेक्षते । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते । आसने उपविश्य भुते ॥ प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः यत इत्यस्यानुपादाने तु प्रद्युम्नादितोऽपि स्यात् । इयमुपपदविभक्तिः सम्बन्धषष्ठीबाधिकाऽन्यथा वासुदेवस्य प्रतिनिधिः प्रद्युम्न इत्यादिवत् षष्ठी स्यात् ॥ आख्यातरि सप्तमी, उपयोगे ॥ विद्याग्रहणार्थ गुरुशुश्रूषादिशिष्यवृत्तनियम उच्यते, तत्पूर्वकविद्याग्रहणे उपयोगशब्दो वर्तते, न तूपयुज्यते व्याप्रियत इति व्यापारमात्रवाच्युपयोगशब्दोऽन्यथा नटस्य गाथां शृणोतीत्यादौ वक्तृश्रोत्रोः कथनश्रवणलक्षणव्यापारस्य सत्त्वान्नटादपि पञ्चम्यापत्तिः स्यात् । उपाध्यायादधीते, उच्चारणोत्तरकालिको नियमपूर्वको ग्रन्थस्वीकारानुकूलो व्यापारो धात्वर्थः, उच्चारणाश्रयोऽत्रापादानम् , उपाध्यायान्निस्सरन्तं ग्रन्थमधीते इत्यर्थः, अत्रापादनत्वेनैव सिद्धे उपयोगे एव यथा स्यादित्येवमयं वचनम् । अत्रोपाध्यायमुखोदीरिताशब्दास्सन्तानेन वर्तमानाशिष्यमनुप्रविशन्तीत्युपाध्यायादवधिस्थानीयात्तेषामपक्रमोऽवसीयत इत्युपाध्यायस्योपक्रमावधित्वादपादानत्वमिति पञ्चमी प्राप्ता। नटस्य शृणोतीत्यत्र त्वपायो न विवक्ष्यते, न हि नटादयमादत्ते, अपि तु नटसम्बन्धिगाथाकर्मकं श्रवणमात्रमित्यर्थः ॥ गम्यश्चासौ यप् च तस्य, कर्म चाधारश्च तस्मिन् । द्वितीयासप्तम्योरपवादः । प्रासादादिति, प्रासादमारुह्यासने उपविश्य प्रेक्षत इत्यर्थः, अत्र प्रासादः कर्म, आसनमधिकरणं यबन्तार्थोऽत्र गम्यः । वृत्तौ यवन्तपदेन यबन्तार्थो ग्राह्य