________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
आङाऽवधौ || ७० || अवधिर्मर्यादा, अभिविधिश्व । तद्वृत्तेराडा युक्तात्पञ्चमी स्यात् । आ पाटलिपुत्रादृष्टो मेघः ॥ पर्यपाभ्यां वये ॥ ७१ ॥ वर्ज्ये वर्जनीयेऽर्थे वर्त्तमानात्पर्यपाभ्यां युक्तात्पञ्चमी स्यात् । परि अप वा पाटलिपुत्रादृष्टो मेघः । वर्ज्य इति किम् ? अपशब्दो मैत्रस्य ॥ यतः प्रतिनिधिप्रतिदाने प्रतिना ||७२ || प्रतिनिधिमुख्यसदृशोऽर्थः प्रतिदानं गृहीतस्य विशोधनम्, ते यतः स्यातां तद्वाचिनः प्रतिना योगे पञ्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति, तिलेभ्यः
२०५
करणप्रकृतधातूपात्तविभागजनकव्यापारानाश्रयत्वरूप्रा ।। आङा तृतीयाsवधानमवधिस्तस्मिन् ॥ प्रवृत्तस्य यत्र निरोधः सा मर्यादा, मर्यादाभूतमेव वस्तु यदा क्रियया व्याप्यते तदाभिविधिः, विना तेनेति मर्यादा, सह तेनेत्यभिविधिः । आ पाटलिपुत्रादिति, पाटलिपुत्रं व्याप्य मर्यादी कृत्य, अव्याप्य वा वृष्टो मेघः || परिश्वापश्च ताभ्यां वये ॥ वर्ज्य वर्जकभाव सम्बन्धः पर्यपाभ्यां द्योत्यत इति सम्बन्धषष्ठ्यां प्राप्तायामनेन पञ्चमीविधानम् । परि पाटलिपुत्रादिति, पाटलिपुत्रं वर्जयित्वेत्यर्थः । अपशब्द इति, अपगतः शब्दादित्यपशब्दः शब्दलक्षणमतिक्रान्त इत्यर्थः, अशुद्धशब्द इति यावत्, अत्रापेति पदमभावद्योतकं न तु वर्जनीयवस्तुद्योतकम् ॥ यतः पञ्चमी, प्रतिनिधिश्व प्रतिदानञ्च तस्मिन् प्रतिना तृतीया । मुख्येति, मुख्यस्याभावे सति यस्तत्सदृश उपादीयते स प्रतिनिधिः । दत्तस्य प्रत्यर्पणं प्रतिदानम् । प्रद्युम्न, इति प्रद्युम्नस्य वासुदेव प्रतिनिधित्वाद्वासुदेवात्पञ्चमी । तिलेभ्य इति तिलग्रहणमपेक्ष्य भाषाणां प्रतिदानमिति तिलशब्दात्पचमी । अत्र सर्वत्र प्रतिनिधिप्रतिदानयोर्निरूपकादेव पञ्चमी भवति, यथा वासुदेवः प्रतिनिधेः, तिलाच प्रतिदानस्य निरूपकास्तस्मात्पञ्चमी यत इत्युक्तत्वात् । वासुदेवप्रद्युम्नयोस्तिलमाषयोश्च परस्परसम्बन्धप्रज्ञापनाय प्रतिशब्दस्य प्रयोगः ।
"
9