________________
२१४
सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? मुक्तपूर्वी
ओदनम् ॥ द्विषो वातृशः ॥ ८४ ।। अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं वा द्विषन् ॥ वैकत्र द्वयोः ॥८५॥ द्विकर्माकेषु धातुषु कृत्पत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन्षष्ठी वा स्यात् । अजाया नेता सुघ्नं सुघ्नस्य वा । अथवा अजामजाया वा नेता सुम्नस्य ॥ कर्तरि ॥ ८६ ॥ कृदन्तस्य धातोः करि षष्ठी स्यात् । भवत आसिका। करीति किम् ? गृहे शायिका ॥ मनेन सादेश्चेनि'ति कर्तर्यर्थे इन्प्रत्ययः । अत्राविवक्षितकर्मतया भावे क्तप्रत्यये कृते भुजधातुवाच्यक्रियापेक्षमनभिहितमोदनस्य कर्मत्वमस्तीति षष्ठीवारणाय कृद्रहणम् । न च भुक्तशब्दस्यौदनसापेक्षतया तद्धितविग्रहो न स्यादिति वाच्यम् , मुक्तपूर्वीत्यस्य पूर्व भुक्तवानित्यनेन समानार्थत्वाद्गुणभूतक्रिययापि कारकत्वस्य कटं कृतवानित्यादौ दर्शनादत्रापि भुजिक्रियापेक्षं कर्मत्वमोदनस्यास्त्येव, तच्च कर्मत्वं न केनाप्यभिहितं भावे क्तस्य कर्तरि इन्प्रत्ययस्य विधानात् , तस्मात्कृद्रहणाभावेऽत्रापि षष्ठी स्यादतस्तद्रहणम् । भुजधात्वर्थनिष्ठविशेष्यतानिरूपितकर्मत्वसम्बन्धावच्छिन्नौदनादिनिष्ठप्रकारताकबोधं प्रति ओदनादिपदसमभिव्याहृतभुक्तपूर्वीति तद्धितान्तस्यैव कारणत्वादोदनादीनां कृदन्तपर्याप्तशक्तिग्रहप्रयोज्यबोधविषय क्रियानिरूपितं न कर्मत्वमिति ततः षष्ठी न भवतीति द्वितीयापवादः ॥ द्विषः षष्ठी, वाऽतृशः षष्ठी । तृन्नादिसूत्रेण प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥ वा, एकत्र, द्वयोः ॥ एकतरस्मिन्निति, अन्यस्मिन्कर्मणि तु पूर्वेण नित्यमेव । एकत्रेति सामान्यनिर्देशात्प्रधानाप्रधानकर्मणोरविशेषेण ग्रहणमित्युभयत्रैवोदाहरति । कर्मणि कृत इत्यनेन द्वयोः कर्मणोः षष्ठी प्राप्ता, पक्षेऽनेन निषिध्यते ॥ कर्तरि ॥ आसितुं पर्याय आसिका, 'पर्यायाहणोत्पत्तौ च णक' इति णकप्रत्ययः, तृतीयापवादः ॥