________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । २०३ नावादिवर्जाचतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये । मन्यस्येति किम् ? न त्वा तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावं अन्नं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् ? न त्वा रलं मन्ये । करणाश्रयणं किम् ? न त्वा तृणाय मन्ये । युष्मदो मा भूत् । अतीति किम् ? त्वां तृणं मन्ये ॥ हितसुखाभ्याम् ॥६५॥ आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् ॥ तद्भद्रायुष्यक्षेमाऽर्थाऽर्थेनाशिषि ॥६६॥ तदिति हितसुखयोः परामर्शः । हिताद्यर्थैर्युक्तादाशिषि गम्यायां चतुर्थी वा स्यात् । हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा। आयुष्यमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् कुशलं निरामयं वा श्रीसङ्घाय श्रीसङ्घस्य वा । अर्थः चतुर्थी विधीयते न तु साम्यविवक्षायाम् , तादृशी च कुत्साप्रतीतिनवः प्रयोगे झटित्येव भवतीति न त्वा तृणं मन्ये इति नघटितमुदाहृतम् , तृणाद्यपि न मन्ये, सृणादेरपि निकृष्टं तुच्छं वा मन्ये इत्यर्थः । अतिकुत्सन इति मन्यतेराप्ये विशेषणादतिकुत्साद्योतकं यदाप्यं तत्र चतुर्थी तेन युष्मच्छब्दान्न भवति । मन्य इति श्येन निर्देशान्न त्वा तृणं मन्ये इत्यादौ न भवति । नावादिगणश्च-नौकाकानशुकशृगालरूपः । न त्वा रत्नं मन्ये इति, रत्नतोऽप्यधिकं त्वां मन्ये इति प्रशंसात्र गम्यते ॥ हितञ्च सुखश्च ताभ्याम् ॥ इष्टसाधनं हितपदार्थः, आमयाविने आमयाविनो वा हितमिति, आमयोऽस्यास्तीत्यामयावी, 'आमयाहीर्घश्चेति विन् दीर्घश्च । पक्षे सम्बन्धलक्षणा षष्ठी ॥ ते च भद्रश्चायुष्यश्च क्षेमञ्चार्थश्च तद्भद्रायुष्यक्षेमार्थानामों यस्य स तेन, आशिषि ॥ अर्थशब्दः प्रत्येकमभिसम्बध्यते । आयुरेवायुष्यम् , क्षेममापदोऽभावः, भद्रं सम्पदुत्कर्ष इति भेदः । हित