SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सिमलघुवृत्तौ [ द्वितीयाध्यायस्य किम् ? पक्ष्यतीति पाचकस्य व्रज्या । गम्यस्याssध्ये || ६२ || यस्यार्थो गम्यते न चासौ प्रयुज्यते स गम्यः । गम्यस्य तुमो व्याप्ये वर्त्तमानाच्चतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । यस्येति किम् ? एधानाहर्तुं याति ॥ गतेर्नवानाप्ते ॥ ६३ ॥ गतिः पादविहरणम्, तस्या आप्येनाते वर्तमानाच्चतुर्थी वा स्यात् । ग्रामं ग्रामाय वा याति, विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत्, पन्थानं याति || मन्यस्याऽनावादिभ्योऽतिकुत्सने ॥ ६४ ॥ अतीव कुत्स्यते येन तदतिकुत्सनं तस्मिन् मन्यतेर्व्याप्ये वर्तमाना २०१ 1 , गमनक्रियाया उपपदं भवति, तथापि पाचकशब्दस्य कर्तरि णकप्रत्ययेन सिद्धत्वाद्भाववचन।भावान्न चतुर्थी || गम्यत इति गम्यं तस्य, आप्यत इत्याप्यं तस्मिन् ॥ तुम इति वर्तते । शब्दोऽर्थवानपि प्रयुज्यमानोऽप्रयुज्यमानश्च भवति । अप्रयुज्यमानश्चार्थप्रकरणशब्दान्तरसन्निधानैः प्रतीयमानार्थः स च गम्य इत्युच्यते । एधेभ्यो फलेभ्यो वा व्रजति, एधान्फलानि वाहर्तुं व्रजतीत्यर्थः एधकर्मकाहरणफलकं व्रजनं फलकर्मका हरणफलकं व्रजनमिति वा वोधः । न ह्यत्रैधार्था फलार्था वा गानक्रिया, किन्त्वाहरणार्थ, अतो न ' तादर्थ्य' इति सूत्रेण चतुर्थी सिद्धा, द्वितीयापवादोऽयम् ॥ गतेः, नवा नाप्तमनाप्तं तस्मिन् ॥ आये इति वर्तते, एवमग्रिमसूत्रेऽपि । स्त्रियं गच्छतीति भजनार्थोऽत्र गमिः । मनसा मेरुं गच्छतीत्यत्र ज्ञानार्थो गमिः । गति - शब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात्पादविहरणरूपैव गतिरिह गृह्यते, ज्ञानादिव्याप्यस्यानाप्तत्वासम्भवाद्, अत एवोक्तं गतिः पादविहरणमिति ॥ मन्यस्य नौ आदिर्येषान्ते, न नावादिरनावादिस्तेभ्यः, अतीव कुत्स्यतेऽनेनेति तस्मिन्नत्यन्त कुत्सायामित्यर्थः । यद्वाचिनश्चतुर्थी विधीयते, तस्माद्यदि अतिशयेन तिरस्कार: प्रतिपाद्यते तदैव
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy