________________
द्वितीयपादः ] मवरिपरिष्कारसहितायाम् । २०१ इति किम् ? मैत्रायात्मानं श्लाघते, आत्मनो मा भूत् ॥ तुमोऽर्थे भाव. वचनात् ॥ ६१ ॥ क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्याथे ये भाववाचिनो घञादयस्तदन्तात्स्वार्थे चतुर्थी स्यात् । पाकाय इज्यायै वा व्रजति । तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति ज्ञापेः कर्मत्वात् , स्तुतिश्चात्मनः परस्य वेति तु प्रकरणादिगम्यम् , तथा च मैत्रवृत्तिबोधविषया स्तुतिरिति बोधः । अथवा गुणोत्कर्षण मैत्रः शंस्यमानो गुणवत्तया तत्समर्थाचरणादध्यारोपितप्रेरणत्वाद्धेतुरिति हेतौ तृतीया प्राप्ता तदपवादायेयं चतुर्थी । मैत्राय हृते इत्यत्र होतेर्बोधविषयमितरादर्शनयोग्यदेशस्थापनमर्थः, मैत्रवृत्तिबोधविषयेतरादर्शनयोग्यदेशावस्थानानुकूला क्रियेति बोधः । तिष्ठतेः स्वाभिप्रायबोधानुकूलस्थितिरर्थः । शपेः स्वाभिप्रायबोधानुकूलशपथकरणमर्थः, मैत्रसम्प्रदानकबोधानुकूला स्थितिः, मैत्रसम्प्रदानकबोधानुकूलं शपथकरणमिति बोधः । अथवा श्लाघ्यादेः स्तुत्यादिपूर्वकं बोधनमर्थः, स्तुत्या मैत्रं स्वानुरागं बोधयति, हुत्या स्थित्या शपथेन वेत्यर्थः । आत्मनो मा भूदित्यत्रात्मा ज्ञाप्यो न प्रयोज्यः, तिष्ठते इति 'ज्ञीप्सास्थेय' इत्यात्मनेपदम् , शपत इति 'शप उपलम्भन' इत्यात्मनेपदम् ॥ तुमः षष्ठी, अर्थे, भावं वक्तीति भाववचनं तस्मात् ।। पाकायेति, पक्तुं यष्टुं वा व्रजतीत्यर्थः, 'भाववचना' इति घनादयः । अत्र तादर्थ्य भाववचनेनैवोक्तमतः शेषषष्ठयां प्राप्तायां हेतुहेतुमद्भावविवक्षायां वा हेतुतृतीयायाः प्राप्तेर्वचनम् । भाववचनेनैव तुमा इव तादर्थ्यस्य द्योतितया नाममात्रे प्रथमायां प्राप्तायां वचनमिति केचित्, पाकस्येति नात्र क्रियायां क्रियार्थायामुपपदे प्रत्ययः किन्तु भावमात्रे ‘भावाकोरिति घञ्प्रत्ययः । पक्ष्यतीति, भविष्यत्पाकफलकं व्रजनमिति बोधः । यद्यप्यत्र भविष्यत्पचनक्रिया
२६