SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य " वा. ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् ? मैत्रमीक्षते ॥ उत्पातेन ज्ञाप्ये ॥ ५९ ॥ उत्पात आकस्मिकं निमित्तम् । तेन ज्ञाप्ये वर्तमानाच्चतुर्थी स्यात् । वाताय कपिला विद्युत् आतपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ||१|| उत्पातेनेति किम् ? राज्ञ इदं छत्रमायान्तं विद्धि राजानम् || श्लाघहस्थाशपा प्रयोज्ये ॥ ६० ॥ श्लाघादिभिर्द्धातुभिर्युक्ताद् ज्ञाप्ये प्रयोज्ये वर्त - मानाच्चतुर्थी स्यात् । मैत्राय श्लाघते हृते, तिष्ठते, शपते । प्रयोज्य " २०० " 9 प्रत्यक्षं पराभिप्रायादिकं वा । मैत्राय राध्यति, तस्य दैवं पर्यालोचयतीत्यर्थः, प्रश्नविषयशुभाशुभपर्यालोचनं धातोरर्थः, तदर्थ प्रश्नविषयसम्ब न्धी मैत्रः, मैत्रसम्बन्धिप्रश्नविषयक शुभाशुभपर्यालोचनमिति बोधः । पर्यालोचनं हि मैत्रं प्रयुङ्क्ते कश्चिदिति हेतुसंज्ञायां प्राप्तायामनेन चतुर्थी । प्रश्नविषयस्य कर्मणो धात्वर्थेनोपसङ्ग्रहादकर्मकावेतौ । ईक्षितव्यं परस्त्रीभ्य इति भट्टिकाव्यप्रयोगे परस्त्रीणामभिप्राये यत्सन्देहादीक्षितव्यं निरूपयितव्यं किमेवं करोषि नवेति, तद्रक्षसां कुलधर्मो न दोष इति । मैत्रमीक्षते राधीक्ष्यर्थविषयाद्विप्रष्टव्यादन्यो धातुरयम् ॥ उत्क्रम्य प्रसिद्धं निमित्तं पततीत्युत्पातस्तेन ज्ञाप्यत इति ज्ञाप्यं तस्मिन् ।। वाताय कपिला विद्युदिति, वातादयः स्वकारणेभ्य उत्पद्यन्ते, विद्युता तु ज्ञाप्यन्ते इति तादध्यं नास्ति, प्राणिनां शुभाशुभसूचको भूतविकार उत्पातः, ज्ञाप्यज्ञापकभावश्चतुर्थ्यर्थः, वातरूपज्ञाप्यज्ञापिका कपिला विद्युदिति बोधः । ज्ञाप्यज्ञापक सम्बन्धविवक्षायां षष्ठ्यां प्राप्तायां चतुर्थी । राज्ञ इदं छत्रमित्यादि, नात्र छत्रमुत्पातः ।। श्लाघश्व हुश्च स्थाश्व शप् च तेन, प्रयोज्ये ॥ ज्ञाप्य इत्यनुवर्तते । मैत्राय लाघते श्लाघां कुर्वन्नात्मानं परं वा ज्ञाप्यं जानन् तं मैत्रं प्रयोजयतीत्यर्थः । अत्र श्लाघते बोधविषया स्तुतिरित्यर्थः, बोधस्य सम्बन्धो वृत्तिता, स्तुतिश्च गुणवत्त्वप्रतिपादकशब्दप्रयोगः, बोधाश्रयस्यानेन चतुर्थी, बोधाश्रयोऽत्र ज्ञाप्यः स एव प्रयोज्यश्च
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy