________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
१९७
तया वा स्यात् । मात्रा मातरं वा सञ्जानीते । अस्मृताविति किम् ? मातरं सञ्जानाति ॥ दामः सम्प्रदानेऽधम्र्म्ये आत्मने च ।। ५२ ।। सम्पूर्वस्य दामः सम्प्रदानेऽधर्म्ये वर्त्तमानात्तृतीया स्यात् । तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या सम्प्रयच्छते कामुकः । अधर्म्य इति किम् ? पत्न्यै सम्प्रयच्छति ॥ चतुर्थी ॥ ५३ ॥ सम्प्रदाने वर्त्तमानादेकद्विबहौ यथासङ्ख्यं ङेभ्यांभ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते । ताद ।। ५४ ।। तस्मा इदं तदर्थम् तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु,
9
दामः षष्ठी, सम्प्रदीयते स्मेति सम्प्रदानं तस्मिन् धर्मादनपेतं धर्म्यं न धर्म्यमधम्यं तस्मिन्, आत्मने, च ॥ सम इति पदमनुवर्तते, तञ्चात्र षष्ठ्यन्तं विज्ञेयमन्यथा पञ्चम्या निर्दिष्टे इति सूत्रेणाव्यवधानेन परत्वस्योपस्थित्या प्रशब्देन व्यवधाने तृतीयाप्राप्तिर्न स्यात्, यथा दास्या सम्प्रयच्छते कामुकः, कामुकः सन् द्रव्यं दास्यै ददातीत्यर्थः । सम्पूर्वस्य दामः प्रशब्दव्यवधानमन्तरेण प्रयोगाभावात्सम इति षष्ठयन्तमेव कर्तव्यम् ॥ चतुर्थी | सम्प्रदाने, नाम्नः, एकद्विबहावित्यनुवर्तन्ते । कारकचतुर्थ्यां सम्प्रदानत्वशक्तिमानर्थः । द्विजाय गां दत्ते, द्विजाभिन्न सम्प्रदाननिष्ठोद्देश्यतानिरूपकं दानमिति बोधः | व्याप्येन गवा द्विजमभिप्रेयत इति द्विजस्य सम्प्रदानता । पत्ये शेते, शयनक्रिययां करणभूतया पत्नी पतिमभिप्रैतीति पतिः सम्प्रदानम्, शेत इत्यकर्मको धातुरिति तद्विषये कर्मणोऽभावात्तेनाभिप्रेयमाणस्य सम्प्रदानता न सिद्धयतीति सम्प्रदानसंज्ञाविधायक सूत्रे क्रियया इत्यपि पृथगुपात्तम ॥ तस्मै इदं तदर्थं तस्य भावस्तस्मिन् ॥ तच्छब्देन कार्यं निर्दिश्यते, तस्मै इदमिति समासेन विशिष्टकार्य प्रयोजनं कारणमभिधीयते, भावप्रत्ययेन च सम्बन्ध उच्यते समासकृत्तद्धितेषु भावप्रत्ययेन सम्बन्धाभिधानमिति वचनात् ।