SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १९८ सिद्धहेमलघुवृत्ती [द्वितीयाध्यायस्यः रन्धनाय स्थाली ॥ रुचिकृष्यर्थधारिभिः प्रेयविकारोत्तमणेषु ।। ५५ ।। रुच्यर्थैः कृप्यर्थैर्धारिणा च योगे यथासङ्घयं प्रेयविकारोत्तमर्णवृत्तेश्चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते तथा च कार्यकारणभावलक्षणः सम्बन्धो बोध्यते । यूपाय दारु, अत्र दादिकं यूपादेः कारणमिति तयोः कार्यकारणभावस्सम्बन्धः, स च यद्यप्युभयनिष्ठस्तथापि गुणभूताद्विशेषणादेव भवति, एवं रन्धनाय स्थालीत्यत्रापि । ननु तस्मै इदमित्यत्र कथं चतुर्थी, न चानेनैव इतरेतराश्रयप्रसङ्गान्निर्देशोत्तरकालं चतुर्थी चतुर्थ्यां च निर्देश इति, मैवम् , अर्थशब्दयोगे चतुर्थीसम्भवात्तस्मै अर्थस्तदर्थ इति । चतुर्थ्यन्तस्यैवार्थशब्देन समास इति न नियमः षष्ठयन्तस्याप्यर्थशब्देन समासाद्यथा गुरोरिदं गुर्वर्थमिति । अत्र तादर्थ्यस्यापि सम्बन्धत्वेन विवक्षितत्वात्षष्ठी । अत एवोक्त सम्बन्धविशेष इति ।। रुचिश्च कृपिश्च, रुचिकृप्योरर्थो येषान्ते, रुचिकृप्यर्थाश्च धारिश्च तैः, प्रेयश्च विकारश्वोत्तमर्णश्च तेषु ।। रुच्यर्थोऽभिप्रीतिः, कृप्यर्थ उत्पत्तिः सात्र विकाररूपा । मैत्राय रोचते धर्म इत्यत्र मैत्रनिष्ठप्रीतेधर्मः कर्ता, धर्मो मैत्रस्याभिलाषमुत्पादयतीत्यर्थः, प्रेयसम्बन्धादभिलाषार्थस्य रुचेर्ग्रहणं तेनेह न भवति, ममैतद्रोचते प्रतिभातीत्यर्थः । अभिलष्यतेर्यत्कर्म तत्कर्तृकोऽभिलाषो रुचेरर्थः । अभिलष्यतेः कर्म धर्मः, स एव चात्र रुचेः कर्ता, विषयतासम्बन्धावच्छिन्नप्रीत्यनुकूलः प्रीतिसमानाधिकरणो यो व्यापारः स रुचेरर्थस्तत्फलभूतप्रीतेराश्रयो मैत्रः । विषयतासम्बन्धावच्छिन्नप्रीत्यनुकूलः प्रीतिव्यधिकरणो यो व्यापारः सोऽभिलषेरर्थः । अतोऽभिलषतेर्न रुच्यर्थत्वं देवदत्तो भक्तिमभिलष्यतीति प्रत्ययात् । समवायसम्बन्धावच्छिन्नप्रीत्यनुकूलो व्यापारः प्रीधातोरर्थः, अत एव हरिं प्रीणयतीत्यादिसिद्धिः । मूत्राय कल्पते यवागूरिति, यवागूमूत्रं सम्पद्यते, यवागूः कर्ती, कल्पते सम्पद्यते,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy