SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १२६ सिद्धहेमलघुवृत्तौ । [द्वितीयाध्यायस्य इति किम् ? पुण्येऽर्कः । भादिति किम् ? तिलपुष्पेषु यत्क्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ॥ प्रसितोत्सुकावबद्धः ॥ ४९ ॥ एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् । केशैः, केशेषु वा प्रसितः । गृहेण, गृहे वा उत्सुकः । केशैः, केशेषु वाऽवबद्धः । व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् ॥५०॥ व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । द्विद्रोणेन द्विद्रोणं, द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन, पञ्चकं पञ्चकं वा पशून् क्रीणाति ॥ समो ज्ञोऽस्मृतौ वा ।। ५१ ।। अस्मृत्यर्थस्य सञ्जानार्यव्याप्यं तद्वृत्तस्तृकर्म न त्वाधारः । प्रसितश्चोत्सुकश्चावबद्धश्च तैः ।। आधार इति वर्तते । केशः केशेषु वा प्रसित इति । केशसंस्कारे बद्ध इव नित्यमासक्त इत्यर्थः । प्रसितशब्दो मुख्यस्य बन्धनस्याभावेन सादृश्यागौणार्थ स्वीकारात् । उत्सुकशब्दसाहचर्यान्नित्यप्रसक्त इति यावत् , न तु प्रकृष्टसितः शुक्ल इत्यर्थे वर्तमानः प्रसितशब्दो ग्राह्यः । षष्ठीबाधनार्थमिदम् , बहुवचनमेकद्धिबद्दविति यथासङ्ग्य निवृत्त्यर्थम् ॥ व्याप्ये, द्विद्रोण आदिर्येषान्तेभ्यः, व्याप्तुमिच्छति वीप्सति वीप्सनं वीप्सा तस्याम् । द्वौ द्रोणौ मानमस्य धान्यस्येति द्विद्रोणम् , द्विद्रोणेन धान्यं क्रीणाति, अत्र द्विद्रोणशब्दो मेयधान्यवृत्तिोंणद्वयसङ्घातं धान्यं क्रीणातीत्यर्थः । अतोऽस्य व्याप्ये वर्तमानता । अत्र वीप्सायां तृतीया विहितेति तृतीयान्तस्य पदस्य द्विवचनं न भवति । द्विद्रोणं द्विद्रोणं धान्यं क्रीणातीत्यत्र द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विर्वचनं भवति । आदिशब्दः प्रकारार्थः । येभ्यो वीप्सायां प्रयोगे तृतीया दृश्यते ते द्विद्रोणादयः प्रयोगगम्या न तु कश्चिद्गणः ॥ समः पञ्चमी, ज्ञः षष्ठी, न स्मृतिरस्मृतिस्तस्याम् , वा । व्याप्य इत्यनुवर्तते, नवाशब्दस्यानुवृत्तावपि वाग्रहणमुत्तरत्र तदनुवृत्तिविरामार्थम् । मात्रा मातरं वा सञ्जानीत इत्यत्र 'सम्प्रतेरस्मृतावि' त्यात्मनेपदम् ।।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy