________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । १९५ यद्भेदैस्तद्वदाख्या ॥ ४६ ॥ यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्याख्या निर्देशः स्यात्तद्वाचिनस्तृतीया स्यात् । अक्ष्णा काणः, पादेन खञ्जः, प्रकृत्या दर्शनीयः । तद्वद्रहणं किम् ? अक्षिकाणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम् , तेनाक्ष्णा दीर्घ इति न स्यात् ॥ कृताद्यैः ॥ ४७॥ कृताऽऽयुनिषेधार्युक्तात्तृतीया स्यात् । कृतं तेन, किं गत्तेन ॥ काले भानवाऽऽधार ॥ ४८ ॥ कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काल यस्य भेदास्तैः, सोऽस्यास्तीति तद्वान् , तद्वत आख्या तद्वदा. ख्या ॥ अक्ष्णा काण इत्यत्र यस्य चक्षुरादेः काणत्वादिभेदैस्तद्वतश्चक्षुरादिमतः पुरुषादेराख्या निर्देशो भवति काण इति, तद्वाचिनोऽक्ष्यादेस्तृतीया भवति । अक्षि काणश्चाकाणश्च भवतीति काणत्वभेदेन तद्वांश्चैत्रादिनिर्दिश्यते । एवं पादेन खञ्ज इत्यत्रापि । प्रकृत्या दर्शनीय इत्यत्र प्रकृतिः स्वभावः, तस्य दर्शनीयत्वमदर्शनीयत्वञ्च, तद्भेदेन दर्शनीयत्वेन तद्वान्पुरुषो दर्शनीय इत्याख्यायते, अतः प्रकृतिशब्दात्तृतीया । अक्षिकाणं पश्येत्या दो काणशब्देनाक्षिभेदेनाक्षि आख्यायते, न तद्वांश्चैत्रादिः ॥ कृत आद्यो येषान्ते कृताद्यास्तैः ।। तृतीयेति वर्तते । कृतादीनां निषेधार्थे वर्तनमनेकार्थत्वात् । कृतमलं किमेवंप्रकाराः कृतादयः॥ काले, भाव ,नवाऽऽधारे। पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः । 'चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते' इत्यण् , तल्लुप्च । 'स्वार्थिकप्रत्यया नातिवर्तन्ते प्रकृतिलिङ्गवचनानी'ति कालेऽपि वर्तमानो नक्षत्रशब्दो नक्षत्रलिङ्गसङ्ख्य एव । अनेन वा तृतीया, पक्षे सप्तमी । पयसि संस्कृतं भक्ष्यं पायसम् । तिलपुष्पेषु यत्क्षीरमिति, अत्र तिलपुष्पशब्दो यस्मिन्काले तिलाः पुष्प्यन्ति तस्मिन्काले वर्तते न तु नक्षत्रे । तत्र तृतीया मा भूदिति भादित्युक्तम् । पुष्यं विद्धीत्यत्र पुष्यशब्दः काले वर्तमानोऽपि विद्धातोः