SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १९४ - सिद्धहेमलघुवृत्तौ । [ द्वितीयाध्यायस्यः पुत्रेण सहागतः स्थूलो गोमान्ब्राह्मणो वा । एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥ त्वजात्या । इदमत्र हृदयम् , पुत्रो ह्यप्रधानः, अप्रधानत्वञ्च शाब्द. क्रियाद्यन्वयित्वाभावः, इतरसमभिव्याहारं विना च शब्देन प्रतीयमानत्वं शाब्दत्वम् , पुत्रेण सहागत इत्यत्रागतशब्देनैकस्या आगमनक्रियाया उपस्थितिः, तत्पदसमभिव्याहारबलात्सहशब्देनापरस्या आगमनक्रियाया आर्थिकी प्रतीतिः, शब्दोपस्थितागमनक्रियान्वयित्वाच्च पित्रादेः प्रधानता, आर्थिकतादृशक्रियान्वयित्वाच्च पुत्रादेः शाब्द क्रियान्वयित्वाभावलक्षणमप्रधानत्वं शाब्दत्वरूपविशेषणाभावप्रयुक्तं तस्मात्ततस्तृतीया भवति । सहैव दशभिः पुत्रै रं वहति गर्दभीत्यादौ विद्यमानतावाचिसहशब्दयोगे दशानां पुत्राणां विद्यमानत्वेऽपीत्यर्थकेऽन्यसमभिव्याहारं विना सहाब्देन प्रतीयमानविद्यमानतारूपपदार्थान्वयित्वेऽपि पुत्राणां तदन्वयिगर्दभ्याद्यन्वितवहनादिक्रियान्वयित्वाभावाद्विशेष्याभावप्रयुक्तः शान्दक्रियाद्यन्वयित्वाभाव इत्यप्रधानत्वात्तत्रापि तृतीया भवति । सहार्थश्च समभिव्याहृतपदोपस्थाप्यक्रियासमानकालीनक्रियान्वयित्वम् । तृतीयार्थश्च क्रियासमभिव्याहारे सहार्थबलात्प्रतीयमानतत्तक्रियाकर्तृत्वादिकमेव, तेन पुत्रेण सहागत इत्यादौ पुत्रकर्तृकागमनसमानकालिकागमनवान् पितेति बोधः । द्रव्यगुणसमभिव्याहारे सहार्थबलात्प्रतीयमानस्तत्तत्पदार्थसम्बन्ध एव तृतीयार्थः, एवश्च पुत्रेण सह पितुर्गों:, पुत्रेण सह स्थूल इत्यादौ पुत्रस्वामिकत्वसमानकालिकपितृस्वामिकत्ववती गौः, पुत्रवृत्तिस्थौल्यसमानकालिकस्थौल्यवानित्यादि क्रमेण वोधः । कचित्समानदेशतरूपं साहित्यम् । सहार्थो यथा माषवापोत्तरं तत्रैव क्षेत्रे तिलवापे तिलैः सह माषान्वपतीति सहार्थकयोगेऽपि पुत्रेण साकं पुत्रेण सममित्यादौ तृतीया । सहार्थस्यार्थागम्यमाने पुत्रेणागतः वृद्धो यूनेत्यादावपि तृतीया भवति ।।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy