________________
द्वितीयपादः ]
अवचूरिपरिष्कार सहितायाम् ।
१९३
हेत्वादिवृत्तेर्नान्नस्तृतीया स्यात् । धनेन कुलम्, चैत्रेण कृतम्, दात्रेण लुनाति, अपि त्वं कमण्डलुना छात्रमद्राक्षीः ? | सहार्थे ॥ ४५ ॥ सहार्थे तुल्ययोगे विद्यमानतायाश्च गम्यमाने नाम्नस्तृतीया स्यात् ।
भूतलक्षणे तु अपि त्वमित्यादि । इत्थंशब्दः प्रकारमात्रपरः, भूङः प्रात्यर्थात् कर्तरि क्तः, कर्मविभक्तयन्तेत्थं शब्देन भूतशब्दस्य समासः, लक्षणशब्दः लक्ष्यतेऽनेनेति करणसाधनस्तस्य कर्मषष्ठयन्तेनेत्थंभूतशब्देन समासः, अत एवोक्तं कचित्प्रकारमित्यादि । छात्रत्वादिरूपेत्थंभावमापन्नस्य मनुष्यस्य कमण्डल्वादिकं लक्षणं ततस्तृतीया । न च लक्षणस्यापि हेतुत्वात्तत्प्रयुक्ता तृतीयात्र भवतीति वाच्यम् हेतुतृतीयया प्रकृत्यर्थतावच्छेदकावच्छिन्ने समभिव्याहृतपदार्थतावच्छेदकावच्छिन्ननिरूपितलक्षणत्वस्य बोधनात् । इत्थंभूतलक्षणतृतीयया तु लक्ष्यतावच्छेदके कादाचित्कलक्षणज्ञानजन्यज्ञानविषयत्वस्य बोधनातू, तथा च लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थमित्थम्भूतलक्षणग्रहणम्, कमण्डलुत्वावच्छिन्ने समभिव्याहृतपदार्थतावच्छेदकछात्रत्वावच्छिन्ननिरूपितस्य लक्षणत्वस्याभावान्न हेतुत्त्रप्रयुक्ता तृतीया, कमण्डलुज्ञानस्य कादाचित्कत्वात्, गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका भवति, तेन धान्येनार्थः, मासेन पूर्व:, असिना कलह इत्यादौ हेतौ, अलं श्रमेणेत्यादौ च गम्यमानक्रियापेक्षया तृतीया ॥ सहस्यार्थः सहार्थस्तस्मिन् ॥ तृतीया वर्तते । सहार्थो द्विविधः, तुल्ययोगो विद्यमानता च । अप्रधानस्य प्रधानेन क्रियागुणद्रव्यजात्या यः साधारणसम्बन्धः सः तुल्ययोगः । सत्त्वञ्च विद्यमानत्वं गम्यमानत्वञ्च शब्दादर्थाद्वा । पुत्रेण सहागत इत्यन्त्रागमनक्रियया पितापुत्रयोस्तुल्ययोगः पुत्रेण सह स्थूल इत्यत्र स्थौल्यगुणेन पुत्रेण सह गोमानित्यत्र गोरूपद्रव्येण, शिष्येण सह ब्राह्मण इत्यत्र ब्राह्मण
1
"
९५
9