________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
दोग्धि पयः ॥ क्रियाविशेषणात् ॥ ४१ ॥ क्रियाया यद्विशेषणं तद्वाचिनो द्वितीया स्यात् । स्तोकं पचति, सुखं स्थाता ॥ कालाध्वनोर्व्याप्तौ ।। ४२ ।। व्याप्तिरत्यन्तसंयोगः | व्याप्तौ द्योत्यायां कालाध्ववाचिभ्यां द्वितीया स्यात् । मासं गुडधानाः, कल्याणी, अधीते वा । क्रोशं गिरिः, कुटिला नदी, क्रोशमधीते वा । व्याप्ताविति किम् ? मासस्य मासे वा द्व्यहं गुडधानाः । क्रोशस्य क्रोशे वैकदेशे
१९१
भवति ।। विशिष्यतेऽनेनेति विशेषणं क्रियाया विशेषणं तस्मात् ॥ ननु रूपादिवत्क्रिया द्रव्यस्योपाधिः, उपाधेश्च नोपाध्यन्तरं सम्भवतीति कथं क्रियाया विशेषणसम्भवः, मैवम्, शुक्लः शुक्लतरः शुक्लतम इत्यादावुपाध्यन्तरायोगेऽपि सजातीयस्य द्रव्योपाधेरपेक्षया उत्कर्षो दृश्यते तथा क्रियाणामपि परस्परापेक्षया विशेषणसम्भवेन शोभनं पचतीत्येवं विशेषणत्वं स्यात् । द्वितीयार्थञ्चेदं वचनं न तु कर्मसंज्ञार्थं तेन कृद्योगे कर्मनिमित्ता षष्ठी न भवति यथा सुखं स्थाता || कालश्चाध्वा च तयोर्व्यापनं व्याप्तिस्तस्याम् ॥ स्वसम्बन्धिना द्रव्यगुणक्रियारूपेणात्यन्तसंयोगो व्याप्तिः । मासं गुडधानाः कालस्य द्रव्येण व्याप्त वुदाहरणम्, मासं कल्याणीति गुणेन व्याप्तौ, मासमधीत इति क्रियया व्याप्तौ | मासमधीते, क्रोशमधीत इत्यकर्मकत्वे उदाहरणम् । ' कालाध्वभाव देशमित्यनेन कर्मसंज्ञाभावपक्षे षष्ठया: सप्तम्या वा प्राप्तावनेन द्वितीया भवति । क्रोशं गिरिरित्यध्वनो द्रव्येण व्याप्तौ क्रोशं कुटिला नदीति गुणेन व्याप्तौ क्रोशमधीत इति क्रियया व्याप्तावुदाहरणानि । षष्ठधाः सप्तम्या वायमपवादः । मासस्य मासे वा द्व्यहं गुडधाना इति, द्वयोरहो: समाहार इति द्व्यहम्, अत्र मासस्य गुडघानेन सह निरन्तरसम्बन्धाभावात्पष्ठी वा सप्तमी वा । द्व्यहमित्यस्य त्वनेन द्वितीया भवति, एकदेश इत्यस्य त्वध्ववा
I