SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १९० सिद्धहेमलघुवृत्तौ [द्वितीयाध्यायस्य करोति, तण्डुलान् पचति, रविं पश्यति, अजां नयति ग्रामम् , गां हि विशेषणस्यापि द्वितीयोत्पादककर्मत्वशक्तिरूपसामर्थ्यवत्त्वमन्यथा विशिष्टं कर्मेति न स्यात्, तच्च कर्मत्वं न कटपदोत्तरद्वितीययाऽभिहितमिति ततोऽपि द्वितीया भवति । अत्रायं भावः, विशिष्टगतैककर्मत्वप्रतिपादनेच्छायामयं प्रयोगस्तत्प्रतिपादनञ्च नोभयत्र द्वितीयां विना । भीष्मपदात् कर्मत्वाद्यनाक्रान्तगुणमात्रोपस्थितिस्तत इतरस्य तद्वैशिष्ट्यप्रतीतौ पश्चाद्विशिष्टस्यैककर्मत्वशक्तिमत्तयोपस्थितिस्तथाविधोपस्थितौ च भीष्माद्युत्तर द्वितीयापि सहकारिणीति, अथवा कटोऽपि कर्म, भीष्मादयोऽपि कर्मेत्याश्रीयते, यद्यद्धि करोति क्रियया यद्विशेषेणाप्तुमिष्यते तत्सर्व कर्म द्रव्यं वा गुणो वा । न ह्यसौ कटमात्रेण सन्तुष्यति, तत्र सर्वेषां पृथकर्मत्वे प्रत्येकं द्वितीया भवति, पश्चात्त्वेकवाक्यतया विशेष्यविशेषणभावः, यद्वा द्रव्यस्यैव क्रियान्तरेषु साक्षादुपयोक्ष्यमाणत्वेन कटस्यैव कर्मसंज्ञा न तु गुणस्य, तथा च भीष्मादीनां स्वयमकर्मत्वेऽपि तदेकयोगक्षेमत्वात्केवलानां प्रकृतीनां प्रयोगानहत्वाच्च विशेषणसम्बन्धिन्यैव विभक्त्या भाव्यम् , यथेश्वरसुहृदः स्वयं निर्धना अपि तदीयेन धनेन तत्फलभाजो भवन्ति । कृतः कटो भीष्म उदारः शोभनो दर्शनीय इत्यादौ तु करोतेरुत्पद्यमानः क्तः स्वप्रकृतिसम्बद्धयावन्निष्ठं कर्मत्वमभिदधातीति न कापि द्वितीया । कृतं पश्य, का क्रियत इत्यादौ कृधातूत्तरक्तादिप्रत्ययेन कर्मादेरभिधानेऽपि दृशादिधातूत्तराख्यातेन तदनभिधानात्तस्क्रियाव्याप्यादेः कृतादेः कर्मत्वादि । एवं प्रधानक्रियाविषयशक्तेः प्रत्ययैरभिधानेऽप्रधानक्रियाविषयशक्तेरप्यभिहितवत्प्रकाशमानत्वेनौदनः पक्का भुज्यते देवदत्तेनेति क्वाप्रत्ययेन भावाभिधायिनाऽप्रधानपचिक्रियाविषयककर्मशक्तेरनभिधानेऽपि प्रधानभुजिक्रियाविषयात्मनेपदेनाभिहितत्वात्तद्वत्प्रकाशमाना सा न द्वितीयोत्पत्ती निमित्तं
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy