________________
१८४
सिद्धहेमलघुवृत्तौ (द्वितीयाध्यायस्य वर्तमानान्नाम्नः परा यथासयं सि औ जस्लक्षणा प्रथमा स्यात् । भावापन्नं पुरुषादि तु द्रव्यम् । यत्र सम्बन्धनिमित्तः प्रत्ययो भवति तत्र सम्बन्धोऽपि स्वार्थः यथा दण्डी विषाणीत्यादि, अत्र हि दण्डविषाणयोः सम्बन्धः स्वार्थः । स्वभावादेव बुद्धिविषयतावच्छेदकत्वोपलक्षिततत्तद्धर्मावच्छिन्नबोधकं सर्वनाम, यस्मिन्धर्मिणि तादृशधर्म प्रवृत्तिनिमित्तीकृत्य प्रयुज्यते, इदं तदित्यादिरूपेण तद्रव्यपदेन व्यवह्रियते, सा च व्यक्तिरेव, तस्या एव सर्वनामपरामर्शयोग्यत्वात् , विशेष्यत्वेन विवक्षितोऽर्थों द्रव्यमित्यपि लक्षणम् , एतत्पक्षे जात्या- . देरपि विशेष्यत्वविवक्षायां द्रव्यत्वमिष्टमेव, तिबन्तार्थक्रियायाः किमादिभिः परामर्शात्स्तोकाद्यर्थनिरूपितविशेष्यतावत्त्वाच्च द्रव्यत्वमस्त्येव । इयं जातिरयं गुण इदं कर्मेत्यादि । यदर्थे वर्तमानमवर्तमानं वा केवलं शब्दत एवावसीयते, तद् ड्याबादिसंस्कारहेतुः स्त्रीपुमान्नपुंसकमिति लिङ्गं यथा नदी खट्वा युवतिरित्यादि । यस्यामेकवचन द्विवचनबहुवचनानि भवन्ति सा भेदप्रतिपत्तिहेतुरेकत्वादिका सङ्ख्या, तया हि पदार्थानां भेदः प्रतीयते भेदपरिगणनलक्षणत्वात्तस्याः । नन्वेको द्वावित्यादावेकादिनामार्थभिन्नतयान्येषां विशेषणीभूतानामेकत्वादीनामभावात्प्रथमाया अभावप्रसङ्ग इति चेन्न, नाम्नः प्रवृत्तिनिमित्तभूतस्यैकत्वादेविभक्त्यानभिधानात् , एकत्वसझ्यावतो यदेकत्वं तत्रैव विभक्तिप्रवृत्तेर्यथा वृक्ष इत्यादौ, वृक्षत्वंवतो द्रव्यस्य यदेकत्वं तद्विभक्त्या प्रतिपाद्यते, तथात्रापि । आख्यातकृत्तद्धितसमासैरनुक्तायां शक्त्यां द्वितीयाद्या विभक्तयः षष्ठी च भवन्ति, सा च शक्तिः स्वपरगतक्रियोत्पत्तिहेतुः कारकरूपा तत्पूर्वकसम्बन्धरूपा च सा यदाभिहिता भवति तदा न द्वितीयादयः । उपचरितमपि नामार्थो भवति । उपचारश्च सहचरणस्थानतादर्थ्यवृत्तमानधरणसामीप्ययोगसाधनाधिपत्येभ्यो भवति । कुन्ताः प्रविशन्तीति साहचर्यात्कुन्तवत्सू: