________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १८३ कर्मणो वाऽऽधारोऽधिकरणं स्यात् । कटे आस्ते, स्थाल्यां तण्डुलान् 'पचति ॥ नाम्नः प्रथमैकद्विबहौ ॥ ३१ ॥ एकद्विबहावर्थमात्रे यथा राजाश्रयः पुरुष इति लोकप्रसिद्धिः । न ह्यत्र पुरुषस्य राज्ञा सह संयोगः समवायो वा । निमित्तमेव नैमित्तिकं यथा युद्धे सन्नह्यते, शरदि पुष्यन्ति सप्तच्छदा इत्यादि, अत्र युद्धादि मित्तिक आधारो न वैषयिकः, सन्नहनादीनां केनचिन्निमित्तेनान्यत्रापि भावात् । अन्यत्रावस्थितस्यान्यत्राध्यारोप उपचारस्तत्र भवमौपचारिक यथाङ्गुल्यने करिशतमास्ते, स मे मुष्टिमध्ये तिष्ठतीत्यादि । अत्र ह्यन्यत्र स्थितस्य करिशतादेः केनापि प्रयोजनादिनाङ्गुल्यग्रादावारोप्यमाणत्वादौपचारिकाधारत्वम् ॥ नाम्नः पञ्चमी, प्रथमा, एकश्च द्वौ च बहवश्च तस्मिन् । कर्मणि द्वितीयेत्या दिसूत्रेण द्वितीयादिविभक्तीनां कर्मादिशक्तिषु वक्ष्यमाणत्वात्प्रथमाया विशेषानभिधानात्परिशिष्टेऽर्थमात्रे प्रथमा । तत्र स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिस्वरूपः समग्रोऽसमग्रो वा नामार्थोऽर्थमात्रम् । शक्तिपदेन कर्मत्वादिशक्तिभिन्नः शक्तिविशेषो ग्राह्यः । तत्र स्वस्यैवार्थः स्वार्थः, यस्मादर्थे शब्दस्य प्रवृत्तिः, शब्द. प्रवृत्तिनिमित्तमिति यावत् । तच्च प्रवृत्तिनिमित्तं त्वतलादिप्रत्ययैरभिधीयते, स्वरूपजातिगुणक्रियाद्रव्यसम्बन्धादिरूपम् । स्वरूपान्तरमनुपादाय स्वाभिधेये यदा शब्दः प्रवर्तते तदा शब्दरूपविशिष्टस्यैवार्थस्य प्रतीतेः शब्दस्वरूपमेव स्वार्थो विशेष्यन्तु द्रव्यं यथा डित्थ इत्यादि । अनुवृत्तिप्रत्ययहेतुर्जातिः यथा गौरित्यादि, अत्र जातिविशिष्टद्रव्यस्य प्रतीत्या जातिः स्वार्थः । गुणः शुक्लादिः शुक्लः पट इत्यादौ गुणविशिष्टस्य द्रव्यस्य प्रतीतेर्गुणः स्वार्थः । कारक इत्यादौ क्रियाविशिष्टस्य द्रव्यस्यावभासनाक्रिया स्वार्थः । द्रव्यमपि यदा द्रव्यान्तरस्य विशेषणं भवति यथा यष्टीः प्रवेशय कुन्तान्प्रवेशयेत्यादौ तदा यष्ट्यादि द्रव्यं विशेषणभावापन्नं स्वार्थः । द्रव्यान्तरं विशेष्य