SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८० सिद्धहेमलघुवृत्तौ . [ द्वितीयाध्यायस्य रक्षति, उपाध्यायादन्तर्द्धत्ते, शृङ्गाच्छरो जायते, हिमवतो गङ्गा प्रभवति, वलभ्याः श्रीशत्रुञ्जयः षड्योजनानि, कार्तिक्या आग्रहायणी प्रत्यश्वस्यापादानत्वमक्षतम् । न च परस्परस्मान्मेषा वपसरत इत्यत्र कथमपादानत्वम्, उभयकर्मजविभागस्यैकतया प्रकृतधातूपात्तविभागजनकक्रियानाश्रयत्वाभावादिति वाच्यम् , विभागैक्येऽपि क्रियाभेदेनैकक्रियामादायान्यस्यापादानत्वात् , तत्तन्मेषवृत्तित्वविशिष्टा क्रिया हि भिन्ना, तत्तन्मेषाश्रितैव नान्यमेषाश्रिता । यद्यपि विभागः सम्बन्धपूर्वको भवति, असम्बद्धस्य विभागानुपपत्तः, तथा च व्याघ्राद्धिभेत्यधर्माजु - गुप्सते विरमति वा, धर्मात्प्रमाद्यतीत्यादौ नास्ति सम्बन्ध इति व्याघ्रादेरपादानत्वं दुरुद्धरं तथापि वास्तवसम्बन्धपूर्वकस्य बुद्धिपरिकल्पितसम्बन्धपूर्वकस्य च विभागस्य विवक्षितत्वाव्याघ्रादिक कष्टहेतुत्वादिना बुद्धया सम्प्राप्य निवर्तनात्तदुपपत्तिः । तच्चापादानं त्रिविधं निर्दिष्टविषयमुपात्तविषयमपेक्षितक्रियश्चेति । यत्र साक्षाद्धातुनापायलक्षणो विषयो निर्दिष्टस्तनिर्दिष्टविषयं यथा वृक्षात्पतति, पतेर्विभागजन्यसंयोगोऽर्थस्तत्र विभागे पञ्चम्यर्थो विशेषणं प्रकृत्यर्थश्च प्रत्ययार्थे, एवञ्च वृक्षरूपापादानकविभागजन्यसंयोगानुकूलं पर्णकर्तृकं पतनम् , एवं ग्रामादागच्छतीत्यादि । यत्र धात्वन्तराङ्गार्थ स्वार्थ धातुराह तदुपात्तविषयं यथा बलाहका. द्विद्योतते विद्युदत्र विद्योततेर्विभागजन्यसंयोगानुकूलक्रियारूपनिस्स. रणपूर्वकविद्योतने वृत्तिः, बलाहकापादानकविभागजन्यसंयोगानुकूल. क्रियोत्तरकालिकं विद्युत्कर्तृकं विद्योतनमिति बोधः । यत्र तु क्रियावाचिपदं न श्रयते केवलं क्रिया प्रतीयते तदपेक्षितक्रियं यथा प्रत्यक्षसिद्धमागमनं मनसि निधाय कुतो भवानिति प्रभे पाटलिपुत्रादित्युत्तरयति तत्राकासादितः आगमनस्यान्वयो भवति । अधर्माज्जुगुप्सत इत्यनिष्टसाधनताज्ञानरूपनिन्दापूर्वकनिवृत्तिर्जुगुप्सतेरर्थः, विषयता पञ्चम्यर्थः, अनिष्टसाधनताज्ञानपूर्वकं ततो निवर्तते इति भावः ।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy