SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १७९ यार्थम् ।। नोपसर्गाक्रवहा ।। २८ ॥ सोपसर्गाभ्यां क्रुद्दहिभ्यां योगे, यं प्रति कोपस्तत्सम्प्रदानं न स्यात् । मैत्रमभिक्रुध्यति, अभिद्रुह्यति। उपसर्गादिति किम् ?मैत्राय क्रुध्यति द्रुह्यति ॥ अपायेऽवधिरपादानम् ॥ २९ ॥ अपाये विश्लेषे योऽवधिस्तदपादानं स्यात् । वृक्षात्पर्णं पतति, व्याघ्राद्विभेति, अधर्माज्जुगुप्सते विरमति वा, धर्मात्प्रमाद्यति, चौरेभ्यस्त्रायते, अध्ययनात्पराजयते, यवेभ्यो गां सम्भवान्न सम्प्रदानसंज्ञा । परैर्दश्यमानां न सहते इत्यत्रेया, एवञ्चानुद्भूता कोपावस्था कोपः, विकृतवाकायव्यापारानुमीयमानावस्थाः क्रोधादय इत्येतयोर्भेदः। मनसा क्रुध्यतीति, नात्र मनस उपरि कोपः किन्तु तेन कृत्वाऽन्यस्य पुरुषादेः। शिष्यस्य कुप्यति विनयार्थं शिष्यसम्बन्धिनोऽविनयस्योपर्यत्र कोपो न तु शिष्यस्य । ननु क्रोधद्रोहादीनां भिन्नस्वभावत्ववर्णनाद्यं प्रति कोप इति सामान्येन सर्वेषां विशेषणं कथं घटते, यं प्रति द्रोहः, यं प्रतीया, यं प्रत्यसूयेत्येव हि घटते इति चेन्न, दुहादीनां कोपहेतुकत्वेन तदितरहेतुकत्वेन च द्वैविध्याकोपहेतुकानामेव तेषां ग्रहणार्थ तथोक्तेः ।। न, उपसर्गात् , क्रुध् च द्रुङ् च तेन ॥ यं प्रति कोपः सम्प्रदानमित्यनुवर्तन्ते । अभिक्रुध्यतीति, मैत्रमभिगम्याभिमुखीकृत्य वा क्रुध्यति, सोपसर्गत्वात्सकर्मकत्वेन कर्मसंज्ञायां द्वितीया ॥ अपाये, अवधानमवधिः, अपादीयते यस्मात्तदपादानम् ॥ विश्लेषो विभागस्तजनकक्रिया सावधिकं गमनमपि । तत्र यदवधिभूतं विश्लेषक्रियानाश्रितं तत्कारकमपादानसंज्ञ भवति । प्रकृतधातूपात्तविभागजनकव्यापारानाश्रयत्वे सति प्रकृतधात्वर्थविभागाश्रयत्वमपादानत्वम् । वृक्षात्पर्ण पततीत्यादौ कर्तुः पर्णादेरपादानत्ववारणाय सत्यन्तम् , धावतोऽश्वात्पततीत्यादौ पततीति प्रकृतधातूपात्तक्रियानाश्रयत्वेनाश्वस्यापादानत्वमक्षतम् । एवं कुड्यात्पततोऽश्वात्पततीत्यादावपि पततीत्युपात्तक्रियानाश्रयत्वेन तां
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy