________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १८१ मासे, चैत्रान्मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्य आढ्यतराः ॥ एवञ्च निवृत्त्यङ्गे जुगुप्सा धातुर्वर्तत इति बुद्धिसंसर्गपूर्वकमपादानत्वम् । अधर्माद्विरमति, प्रागभावसाधारणकृत्यभावानुकूलव्यापारपूर्वकनिवृत्तिर्विरमतेरर्थः, य एषः प्रेक्षापूर्वकारी सोऽधर्म दुःखहेतुं बुद्ध्या सम्प्राप्य नानेन कृत्यमस्तीति ततो निवर्तत इति निवृत्यगत्वाद्विरमणस्याधर्मस्यापादानत्वम् । धर्मात्प्रमाद्यति, अत्रेष्टसाधने वस्तुनि समानदेशत्वसमानकालत्वोभयसम्बन्धेनाधिकारविशिष्टेष्टसाधनत्वा-- भाव ज्ञानपूर्वकनिवृत्तिः, अनिष्टसाधनज्ञानपूर्वकनिवृत्तिर्वा धात्वर्थः । य एष मनुष्यो नास्तिकबुद्धिर्भवति स पश्यति, ‘नायं कश्विद्धर्मो नाम, नैनं करिष्यामीति' स्वबुद्ध्या सम्प्राप्य ततो निवर्तत इति, निवृ. त्यङ्गत्वादपादानत्वम् । चौरेभ्यस्त्रायते, अनिष्टपरिहारस्त्राणं तत्पूर्विका निवर्तना धात्वर्थः, चौरापादानिकाऽनिष्टपरिहार फलिका निवर्तनेति बोधः । अध्ययनात्पराजयते, कृत्य साध्यत्वज्ञानसमानाधिकरणोत्साहाभावपूर्वकनिवृत्तिर्धात्वर्थः । यवेभ्यो गां रक्षति, गवादेर्यवादिसम्पर्क बुद्ध्या समीक्ष्य विनाशं पश्यन् गवादीन् यवादिभ्यो निवारयत्यतोऽपादानत्वम् । उपाध्यायान्निलीयते, अत्र स्वकर्मकदर्शनाभावप्रयोजकदेशविशेषस्थितिर्धातोरर्थः। मामुपाध्यायो मा द्राक्षीदिति तिरोभवती. त्यपादानता | शृङ्गाच्छरो जायते, अत्र शृङ्गादिभ्यः शरादयो निर्गच्छन्तीति स्पष्टमेवापादानत्वमेवं हिमवतो गङ्गा प्रभवतीत्यत्राप्यपां सङ्क्रमणादपादानता । वलभ्याः श्रीशत्रुञ्जयः षड्योजनानि, अत्राव्यवहितोत्तरत्वं पञ्चम्यर्थः । स्वाव्यवहितोत्तरवृत्तित्वं प्रथमायाः, एवञ्च वलभ्यव्यवहितोत्तरषड्योजनाव्यवहितोत्तरदेशवृत्तिः श्रीशत्रुञ्जय इति बोधः । कार्तिक्या आग्रहायणी मासे, कार्तिक्यवयवकत्रिंशत्तिथ्यात्मकमासाव्यवहितोत्तरकालवृत्तिराग्रहायणी । उभयत्राप्येवमपायः प्रतीयते। चैत्रान्मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्य आध्यतराः, अत्र मैत्रादयः पटुत्वादिना धर्मेण ततो विभक्ताः प्रतीयन्त इत्यपादानत्वम् ।।