SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ द्वितीयपाद: ] अवचूरिपरिष्कारसहितायाम् । , कारकं करणं स्यात् । दानेन भोगानाप्नोति ॥ कम्मभिप्रेयः सम्प्रदानम् || २५ || कर्म्मणा व्याप्येन, क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते, राज्ञे कार्यमाचष्टे, पत्ये शेते || ज्ञापनार्थं तेन कुशूलात्पचतीत्यादावुद्धरणादिना व्यवहितस्यापि कुशूलस्यापादानत्वम्, गङ्गायां घोषः प्रतिवसतीत्यत्र च तीरे उपचरिताया अपि गङ्गाया अधिकरणत्वम्, अन्यथाऽव्यवहितस्याव घेरेवापादानत्वं स्यात्, यथा वृक्षात्पर्णं पतति, तथा सर्वावयवैः सह यत्रावयवी व्याप्तः यथा गङ्गायां गावः, तिलेषु तैलमित्यादावेव गङ्गादेरधिकरणत्वं स्यात् || अभिप्रेयते इत्यभिप्रेयः कर्मणाभिप्रेयः कर्माभिप्रेयः, सम्प्रदीयते यस्मै इति सम्प्रदानम् । अभिप्रेयते इत्यभिप्रोपसर्गद्वयपूर्वकस्य दैवादिकस्य इंङ्च् गताविति धातोः कर्तरि रूपं नान्यस्यासम्भवात् । श्रद्धानुग्रहादि - काम्यया यमभिसम्बध्नाति सः कर्माभिप्रेयः । देवाय बलिं दत्ते इत्यत्र ददातिनाऽऽप्तुमिष्टत्वाद्वलिः कर्म, तेन देवादिरभिसम्बध्यते इत्यभिसम्बन्धक्रियासाधकतमत्वाद्वल्यादेः करणत्वम्, तथा च करणभूतेन कर्मणा कर्ता श्रद्धानुप्रहादिकाम्यया देवमभिप्रैतीति देवस्य सम्प्रदानता । सम्प्रदानमत्र त्रिधोक्तम्- अनिराकरणात्प्रेरणादनुमतेश्च । तत्र प्रथमं देवाय बलिं ददाति, अत्र देवो न प्रार्थयते नानुमन्यते न निराकरोति चेत्यनिराकरणाद्देवः सम्प्रदानम् । याचकायार्थं प्रयच्छतीत्यत्र याचकः प्रेरणया सम्प्रदानम् । विप्राय गामुत्सृजतीत्यत्रानुमत्या विप्रः सम्प्रदानम् । ननु दानस्य तदर्थत्वात्तादर्थे चतुर्थीप्रयोगात्किमर्थ सम्प्रदानसंज्ञा, उच्यते, दानक्रियार्थं हि सम्प्रदानं न तु दानक्रिया तदर्था, कारकाणां क्रियार्थत्वात्, सम्प्रदानार्थन्तु दीयमानं कर्मेति वाक्यार्थभूताया दानक्रियाया अतादर्थ्यात्तादर्थे चतुर्थ्यां अप्रातौ तदर्था संज्ञा न्याय्येति । राज्ञे कार्यमाचष्टे, अत्र कार्यकर्मकं २३ १७७
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy