________________
१७६
सिद्धद्देमलघुवृत्तौ
[ द्वितीयाध्यायस्य
क्रोशं शेते, गोदोहमास्ते, कुरूनास्ते । पक्षे - मासे आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ? रात्रावुद्दे - शोऽधीतः ॥ साधकतमं करणम् ॥ २४ ॥ क्रियायां प्रकृष्टोप
स्वपितीति न प्रयोगः | भावः क्रिया गोदोहादिः, देशो जनपदग्रामनदीपर्वतादिः । युगपदिति, येषामाधारः कर्मसंज्ञो वा भवति, अकर्म च, यत्रापि पक्षे कर्मसंज्ञा तत्राकर्मसंज्ञापि वा भवतीत्यर्थः । मासमास्यत इत्यत्राकर्मसंज्ञाया अभावे कर्मणि सति भावे आत्मनेपदं न स्यात्सकर्मकत्वात् । कर्मण्यात्मने पदे तु तेनैवाभिहितत्वात्कर्मणो द्वितीया न स्यात्, न ह्यभिहिते कर्मणि व्याप्तावपि द्वितीया इष्यते, ततः कर्मसंज्ञा अकर्मसंज्ञा च युगपद्भवतः ॥ साधयतीति साधकः, बहूनां मध्ये प्रकृष्टं साधकं साधकतमम्, प्रकृष्टार्थे तमप्रत्ययः, क्रियते - ऽनेनेति करणम् || प्रकर्षो ह्यत्राव्यवधानेन फलजनकव्यापारवत्ता, तादृशव्यापारवत्कारणं प्रधानोपकारकं तच्च विवक्षयैव, यत इदमेव वस्तु करणमिति न नियमः । निश्चिताधिकरणादपि हि स्थाली सूक्ष्मत्वाच्छीघ्रतरपाकसाधनत्वेन वैवक्षिकं करणत्वमनुभवति । कर्तृपराधीनस्यापि कारणस्य कारकान्तरापेक्षयैव प्रकृष्टत्वं न तु करणान्तरापेक्षया, कारकसामान्यवाचिनः साधकशब्दात्तमपः कृतत्वेन तत एव प्रकर्षबोधनात्तेनैकस्यां क्रियायामनेकमपि करणं भवति, यथाश्वेन पथा दीपिकया व्रजति । यद्व्यापारानन्तर्येण तु क्रियापरिनिष्पत्तिविवक्ष्यते तस्य साधकतमस्येयं संज्ञा । ज्वलनादिव्यापारेण क्वचित्क्रियासिद्धौ काष्ठानां विवक्षितत्वे काष्ठैः पचतीति काष्ठानि करणम् । ननु साधकं करणमित्येव सूत्रयतां कारकमित्यस्य चानुवृत्तिरस्ति, एवञ्च साधकं कारकं करणसंज्ञं स्यादित्यर्थो लभ्यते । साधकं कारकमिति हि पर्यायः, पर्यायद्वयोपादानेन च प्रकर्षो लभ्यत इति तमग्रहणं व्यर्थमिति चेदुच्यते, तमग्रहणमपादानादिसंज्ञाविधौ तरतमयोगो नास्तीति