SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । अक्षैर्दीव्यति, अक्षैर्देवयते मैत्रश्चेत्रेण ॥ अधेः शीस्थाssस आधारः ।। २० ।। अधेः सम्बद्धानां शीस्थाऽऽसामाधारः कर्म्म स्यात् । ग्राममधिशेते, अधितिष्ठति, अध्यास्ते वा ॥ उपान्वध्यावसः ॥ २१ ॥ उपादिविशिष्टस्य वसतेराधारः कर्म्म स्यात् । ग्राममुपवसति, अनुवसति, अधिवसति आवसति ॥ वाभिनिविशः || २२ || अभिनिभ्यामुपसृष्टस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिविशते, कल्याणेऽभिनिविशते ॥ कालाध्वभावदेशं वाऽकर्म्म चाकर्मणाम् ॥ २३ ॥ कालादिराधारोऽकर्मणां धातूनां योगे, कम्मकर्म च युगपद्वा स्यात् । मासमास्ते, " १७५ वति ॥ अधेः पञ्चमी, शीङ् च स्था च आस्च तस्य, आधारः ॥ कर्मेति वर्तते । आध्रियतेऽनेनेत्याधारः । अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति सिद्धं सकर्मकत्वम्, आधारबाधनार्थन्तु वचनम् ।। उपश्चानुश्चाधिश्वाङ् च, उपान्वध्याभिर्विशिष्टो वस्तस्य ।। आधारः कर्मेति वर्तते, एवमग्रेऽपि । शब्दशक्तिप्रामा. ण्यादन्वादिपूर्वो वसतिः स्थानमाचष्टे तत्साहचर्यादुपपूर्वस्यापि वसः स्थानार्थस्यैव परिग्रहः, न तु भोजननिवृत्तिवचनस्योपवासस्य, तेन ग्रामे उपवसति भोजननिवृत्तिमुपवासं करोतीत्यर्थे तु सप्तम्येव । अत्रादाधनदायोरनदादेरेव ग्रहणमिति न्यायेन वस आच्छादने इत्यदादेर्वस्तेर्न ग्रहणं किन्तु वस निवासे इत्यादेः ॥ वा अभिपूर्वो निः अभिनिः, अभिनेः परो विट् तस्य ॥ वाशब्दो न विकल्पार्थः किन्तु प्रयोगव्यवस्थार्थोऽर्थाद्व्यवस्थितविभाषापरस्तेन कचित्कर्मसंज्ञैव, कचिदाधारसंज्ञैव ॥ कालश्चाध्वा च भावश्च देशश्च तत्, वा, न कर्म अकर्म, च, न विद्यते कर्म येषान्तेऽकर्माणस्तेषाम् || कालो मुहूर्तादिः कालत्वेन प्रसिद्धस्तेन घटमास्त इति घटस्य कालत्वेऽपि न भवति, गन्तव्यत्वेन प्रसिद्धो नियतपरिमाणः क्रोशादिरध्वा, अत एवाध्वानं
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy