SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १७४ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य र्व्याप्यौ वा कर्म्म स्याताम् । शतस्य शतं वा पणायति, दशानां दश वा व्यवहरति । विनिमेयद्यूतपणमिति किम् ? साधून् पणायति ॥ उपसर्गाद्दिवः || १७ || उपसर्गात्परस्य दिवो व्याप्यौ विनिमेयद्यूतपणौ वा कर्म्म स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गादिति किम् ? शतस्य दीव्यति ॥ न || १८ || अनुपसर्गस्य दिवो व्याप्यौ विनिमेयद्यूतपणौ कर्म्म न स्याताम् । शतस्य दीव्यति ॥ करणञ्च ॥ १९ ॥ दिवः करणं कर्म्म करणश्च युगपत्स्यात् । अक्षान्दीव्यति, वा तद्विनियुङ्क्त इत्यर्थः, साधून् पणायति स्तौतीत्यर्थः, वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः ॥ उपसर्गात् दिवः षष्ठी ॥ विनिमेयद्यूतपणमित्यपि सम्बध्यते । शतस्य दीव्यतीत्यत्र नेत्यग्रिमसूत्रेण व्याप्यस्य कर्मसंज्ञानिषेधः ॥ न | पृथग्योगादुपसर्गादिति न सम्बध्यते, विनि I ! द्यूतपणं दिव इत्यनुवर्तेते । शतस्य दीव्यतीत्यत्र कर्मणि निषिद्धे 'शेषे' षष्ठ्येव भवति । उपसर्गयुक्तस्य पूर्वसूत्रेण विकल्पविधानादनुपसर्गस्य दिवोऽनेन सूत्रेण व्याप्यस्य कर्मसंज्ञानिषेधः ॥ ' करणम् च ॥ दिव इति वर्तते । कर्मकरणसंज्ञे युगपद्भवत इत्यर्थः । चकारेण करणस्यैव ग्रहणमन्यश्च समुच्चयस्याभावात् फलं स्यान्न वा सर्वप्रयोगेषु संज्ञाद्वयं बोध्यम् । कर्मसंज्ञायामक्षान्दीव्यति करणसंज्ञायान्त्वक्षैदव्यति । न च संज्ञाद्वयं युगपन्निरवकाशमिति वाच्यम्, मैत्रत्रेणेत्यत्र करणत्वात्तृतीया, कर्मत्वाच्च 'गत्यादि' सूत्रेण नित्याकर्मकत्वप्रयुक्तमणिकर्तुः कर्मत्वं देवयतेश्चा 'णिगि प्राणी 'त्यादिनाऽकर्मकलक्षणं परस्मैपदञ्च न भवति । न चाक्षान्दीव्यतीत्यत्र कर्मसंज्ञायाः सत्त्वेऽपि परत्वात्करणतृतीया स्यादिति वाच्यम् । भिन्नविषयत्वेनात्र 'स्पर्धे पर' इति न्यायस्याप्रवृत्तेः समानविषयोर्हि स्पर्धः, द्वितीयातृतीययोश्च प्रतिनियतकर्मकरणशक्त्यभिधायित्वाद्भिन्नविषयत्वम् । अथवा प्रतिकार्य संज्ञाभेद इत्यपि दर्शनादत्र संज्ञाद्वयप्राप्तावेकस्या एव विधानेऽपरस्या अनवकाशत्वप्रसङ्गात्पर्यायेण संज्ञाद्वयप्रयुक्ता विभक्तिर्भ " "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy