SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १७३ चौरस्य चौरं वोन्नाटयति, चौरस्योत्नाथयति चौरमुत्कथयति वा । चौरस्य चौरं वा पिनष्टि। हिंसायामिति किम् ? चौरं बन्धनाज्जासयति ॥ निप्रेभ्यो घ्नः ॥ १५॥ समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हिंसार्थस्य हन्तेाप्यं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहन्ति । हिंसायामित्येव ? रागादीनिहन्ति ॥ विनिमेयद्यूतपणं पणिव्यवहोः ॥१६॥ विनिमेयः क्रयविक्रयोऽर्थः, द्यूतपणो द्यूतजेयम् , तौ पणिव्यवह्रोवृत्ताविति भ्वादेः, अवस्यन्दनं हिंसाविशेषः, क्रार्थिर्घटाद्यन्तर्गतः । ननु धातुपाठे. जसनटक्रथेति वर्तते, तत्कथमत्र जासनाटकाथेतिनिर्देशः, न च ण्यन्तानां निर्देश इति वक्तव्यम् , तथा सति जासिनाटिकाथीति निर्देशप्रसङ्गादिति चेदुच्यते, सम्प्राप्ताकाराणां जासादीनां प्रयोगे एव विघेरस्य प्रवृत्तिस्तेन दस्युमुदजीजसदित्यादौ न भवति । न च हिंसाया रुजात्वाद्रुजार्थस्येत्यनेनैव कर्मविकल्पो भविष्यतीति वाच्यम् , भावः कर्ता यत्र न भवति तत्र कर्मविकल्पार्थत्वात् । ननु क्रथधातुर्घटादौ वर्तते, तथा च 'घटादेईस्वो दीर्घस्तु वा विणम् पर' इति सूत्रेण ह्रस्वे चौरस्य चौरं वोत्क्राथयतीति कथम् , सूत्रे च क्राथेतिनिर्देशोऽपि कथमिति चेन्न, अनेनैव निर्देशात्क्रथो घटादित्वेऽपि णिगि सत्याकारस्य भावात् , अणिगन्तस्य कथेरकर्मकत्वेन कृते एव णिगि कर्म सम्भवति, तथा च यद्याकारः सर्वत्र स्यात्तर्हि घटादित्वमस्य व्यर्थ स्यादतः कर्माभावपक्षे एव न इस्वः, कर्मणि तु ह्रस्वत्वमेवेति चौरमुत्कथयतीति रूपं विज्ञेयम् । नियश्च प्राश्च निप्रास्तेभ्यः, घः षष्ठी ॥ बहुवचनं समस्तव्यस्त विपर्यस्तसङ्ग्रहार्थम् , एवञ्च सर्वत्रात्र व्याकरणे बहुवचनमधिकार्थज्ञापनार्थमित्यवगन्तव्यम् । रागादीन्निहन्तीत्यत्र रागादीनामचेतनतया प्राणव्यपरोपणलक्षणहिंसाया अभावान्न भवति ॥ विनिमेयश्च घृतपणश्च, पणिश्च व्यवहा च पणिव्यवहारौ तयोः ।। दशानां दश वा व्यवहरति, क्रयविक्रये द्यूतपणत्वे
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy