________________
१७२
सिद्धहेमलघुवृत्ती [द्वितीयाध्यायस्य मीष्टे, लोकानीष्टे ॥ कृगः प्रतियत्ने ॥१२॥ पुनर्यत्नः प्रतियत्नस्तद्वृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं वोपस्कुरुते ।। रुजार्थस्याऽज्वरिसन्तापेर्भावे कर्तरि ॥ १३ ॥ रुजा पीडा, तदर्थस्य ज्वरिसन्तापिवर्जस्य धातोर्व्याप्यं, कर्म वा स्यात् । भावश्चेद्रुजायाः कर्ता । चौरस्य चौरं वा रुजति रोगः । अज्वरिसन्तापेरिति किम् ? आयूनं ज्वरयति सन्तापयति वा । भाव इति किम् ? मैत्रं रुजति श्लेष्मा। जासनाटकाथपिषो हिंसायाम् ॥१४॥ हिंसार्थानामेषां व्याप्यं, कर्म वा स्यात् । चौरस्य चौरं वोज्जासयति, भवति, यदि तु सिद्धं नाभविष्यत्तदेदं सूत्रं नियमार्थ नाभविष्यत्, किन्तु विध्यर्थमेवाभविष्यत् , तदेवमस्य सूत्रस्य यन्नियमार्थत्वं तदिमं न्यायं विनानुपपद्यमानं सदिमं न्यायं ज्ञापयति ।। कृगः षष्ठी, पुनर्यत्नः प्रतियत्नस्तस्मिन् ॥ प्रथमं तावदर्थस्यात्मलाभाय यत्नो भवति, ततो लब्धात्मनोऽधिकान्गुणानुत्पादयितुं परिपूर्णगुणस्य वा तादवस्थ्यं रक्षितुं यो यत्नः क्रियते स प्रतियत्नः । एधाश्च उदकानि च तदेधोदकम् । उपाद्भूषासमवायेति स्सट् , ' गन्धने 'त्यात्मनेपदम् ॥ रुजा पीडा अर्थो यस्य तम्य, ज्वरिश्च सन्तापिश्च ज्वरिसन्तापि, न ज्वरिसन्तापि तस्य, भावे, कर्तरि ॥ भावे कर्तरीत्यस्यार्थमाह, भावश्चद्रुजायाः कर्तेति । अत्र भावशब्दः सिद्धरूपे भावे वर्तते, न तु साध्यरूपे तस्य कर्तृत्वानुपपत्तेः । चौरस्य चौरं वा रुजति रोगः, अत्र पीडार्थस्य रुजतेः कर्ता रोगः सः सिद्धरूपो भावः । आयुनं ज्वरयतीत्यौदरिक पीडयतीति भावः । श्लेष्मा तु द्रव्यं न भावः, रोगो व्याधिरामयः शिरोऽर्तिरित्यादयो भावरूपा कर्तारः ॥ जासश्च नाटश्च काथश्च पिष् च तस्य, हिंसायाम् ॥ जस हिंसायां जसण ताडने इति चौरा. दिकयोHहणं न तु जसूच् मोक्षणे इति देवादिकस्य, तस्य हिंसार्थत्वाभावात् । नटण अवस्यन्दने इत्यस्य चौरादिकस्यैव ग्रहणं न तु नट