________________
द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । १७१ न्भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा। आत्मन इति किम् ? दर्शयति रूपतर्क रूपम् ॥ नाथः ॥ १०॥ आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सप्पिषो नाथते, सप्पि थते । आत्मन इत्येव ? पुत्रमुपनाशति पाठाय ॥ स्मृत्यर्थदयेशः ॥ ११ ॥ स्मृत्यर्थानां दयेशोश्च व्याप्यं, कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति, मातुः स्मर्यते, माता स्मयते । सप्पिषः सपिर्वा दयते, लोकानाकर्मत्वम् । नाथः षष्ठी ।। आत्मने व्याप्यं कर्म नवेति पदान्यनुवर्तन्ते । पृथग्योगकरणादणिकता णाविति निवृत्तम् । आत्मनेपदविषयस्वञ्च नाथधातो ' राशिषि नाथ' इत्युपतापैश्वर्याशीर्वचनार्थेषु मध्ये आशिष्येव, तत्रैवायं विधिः । सर्पिषो सर्पिर्वा नाथते, सर्पिर्मे भूयादित्याशास्त इत्यर्थः । उपनाथत्युपयाचत इत्यर्थः ।। स्मृतिरों येषान्ते स्मृत्यर्थाः, स्मृत्यर्थाश्च दयश्च ईश्च तस्य ।। पूर्ववदनुवर्तनमेवमग्रेऽपि । मातुः स्मरति, कर्मत्वाभावपक्षे ‘शेष' इत्यनेन षष्ठी । लोकानामीष्टे व्यापारेषु नियुके स्वायत्तीकरोतीत्यर्थः । यद्यप्यत्र कर्मणोऽविवक्षायां माषाणामनीयादित्यादिव'च्छेषे' षष्ठी सम्भवति, तथाप्ययं प्रयत्नो मातुः स्मृतमित्यादौ षष्ठीसमामव्यावृत्तये, अन्यथा हि यत्नाच्छेषस्य विधानाभावेन 'षष्ठययत्नाच्छेष' इत्ययत्नजशेषषष्ठीसमासः प्रसज्येत, तथैषां धातूनां कर्मैव शेषरूपेण विवक्ष्यते न कारकान्तरमिति नियमार्थम् ; तेन मात्रा स्मृतमित्यादौ न कर्तादेः शेषत्वेन विवक्षा । सर्वधातूनां कर्तृकर्मादिकारकाणि यदि तद्रूपतया विवक्ष्यन्ते तदा कर्तृकर्मादिरूपाणि स्युः, नो चेन्न, एवञ्च स्मृत्यर्थदयेशामपि कर्मणः कर्मत्वं विवक्षावशात्स्याञ्च न स्याञ्चेत्यप्यागतम् । स्मृत्यर्थादीनामपि सर्वधातुग्रहणेन ग्रहणात् , एवञ्च स्मृत्यर्थादीनां कर्मणोऽकर्मत्वविकल्पे उक्तरीत्या 'विवक्षातः कारकाणी ' ति न्यायेन सिद्धे यदि स्मृत्यर्थदयेश इति सूत्रमारब्धं तथा नियमार्थे विश्रान्तं