SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ । द्वितीयाध्यायस्य हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना ॥ वहेः प्रवेयः ॥ ७ ।। वहेरणिका प्रवेयो णौ कर्म स्यात् । वाहयति भारं बलीवर्दान्मैत्रः । प्रवेय इति किम् ? वाहयति भारं मैत्रेण ॥ हृक्रोनवा ॥ ८ ॥ हक्रोरणिकर्ता णौ कर्म वा स्यात् । विहारयति देश गुरुं गुरुणा वा, आहारयत्योदनं बालं बालेन वा, कारयति कटं चैत्रं चैत्रेण वा ॥ दृश्यभिवदोरात्मने ॥ ९ ॥ दृश्यभिवदोरात्मनेपदविषयेऽणिकर्ता णौ कर्म वा स्यात् । दर्शयते राजा भृत्याइति न्यायात् ॥ वहेः षष्ठी ।। प्रवीयते प्राजनक्रियया व्याप्यते यः सः प्रवेयः ॥ अणिकर्ता णौ कर्मेति सम्बध्यते । वहन्ति बलीवर्दा भारं तान्प्रयुङ्क्ते नियोक्ता मैत्र इति वाहयति बलीवर्दान्मैत्रः, वाहयति भारं मैत्रेणेत्यत्र मैत्रः बलीवर्दवन्न प्रवेयः । प्राप्त्यर्थस्य प्रापणार्थस्य च वहेर्गत्यर्थत्वात्पूर्वेण सिद्धे नियमार्थम् ॥ हा चौंका च हकरौ तयोः, नवा ।। अनुवृत्तिः पूर्ववत् । विहारयत्याहारयतीत्यादौ गत्यर्थत्वादाहारार्थत्वाच्च प्राप्ते कारयतीत्यत्राप्राप्ते विकल्पः । एवं हारयति द्रव्यं मैत्रं मैत्रेण वेति चौर्यार्थेऽप्राप्तौ विकल्पः । कारयिता कटस्य देवदत्तं देवदत्तेन वेति प्रापणार्थस्य च प्राप्ते विभाषा ॥ दृशिश्चाभिवच तयोः, आत्मार्थ पदं आत्मनेपदम् । 'परात्मभ्यां डे' रित्यलुप्समासः, 'ते लुग्वे' ति पदलोपः । अणिकर्ता णौ कर्म नवेत्येतेषां सम्बन्धः । पश्यन्ति राजानं भृत्यास्तान्भृत्यान्पश्यतो राजैवानुकूलाचरणेन प्रयुत इति दर्शयते राजा भृत्यान्मृत्यैर्वा, अत्राणिकर्मेत्यात्मनेपदम् । अभि. वदति गुरुं शिष्यः, तं गुरुः पश्यतीत्यभिवादयते गुरुः शिष्यं शिष्येण वा । दृशेर्बोधार्थत्वेन नित्यं प्राप्ते, अभिवदेस्त्वप्राप्ते विकल्पः । पश्यति रूपतर्को रूपम् , तमन्यः प्रेरयतीति दर्शयति रूपतक रूपम् , रूपतर्को रजतकार्षापणादिपरीक्षकः । नायं विवक्षितफलवत्कर्तृकः, अणिक्कर्म णिकर्तृको वेति नात्मनेपदविषयः । अत्र बोधार्थत्वाद्गतीत्यनेन नित्यं
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy