SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः] अवचूरिपरिष्कारसहितायाम् । १६९ मैत्रेण, क्रन्दयति मैत्रं चैत्रेण ॥ भक्षेहिसायाम् ॥ ६ ॥ भक्षेहिँसार्थस्यैवाणिकर्ता णौ कर्म स्यात् । भक्षयति सस्यं बलीवदान्मैत्रः । क्रियाया अपि विवक्षितत्वात् । ह्वाक्रन्दोः शब्द क्रियत्वेन प्राप्तौ प्रतिषेधः सङ्गच्छते । शाययति मैत्रं चैत्र इति नित्याकर्मकस्योदाहरणम् । अत्र नित्यग्रहणमविवक्षितकर्मणः पूर्वसूत्रे ग्रहणार्थम् । तथा च येषां देशकालादिभिन्नं कर्म न सम्भवति तेऽत्र नित्याकर्मकाः । देशकाला. ध्वभावापेक्षया सर्वेऽपि धातवः सकर्मकाः । सकर्मकत्वश्च फलतावच्छेदकसम्बन्धेन फलव्यधिकरणव्यापारार्थकत्वम् । यत्र फलं व्यापारश्च भिन्नेष्वधिकरणेषु वर्तेते तद्वाचको धातुः सकर्मकः । यथा तण्डुलं पचतीत्यादौ विक्लित्तिलक्षणं फलं तण्डुलेषु, तदनुकूलव्यापारश्च पाककर्तरीति लक्षणसमन्वयः । अकर्मकत्वञ्च फलतावच्छेदकसम्ब. न्धेन फलाधिकरणवृत्तिव्यापारार्थकत्वम् । यत्र फलं व्यापारश्चैकत्र वर्तेते तद्वाचको धातुरकर्मकः । यथा चैत्रः शेते, अत्र स्वापतदनुकूलव्यापारयोरेकत्रैव चैत्रे वृत्तेरकर्मकत्वम । नाययति भारं चैत्रेणेति नयतेः प्रापणोपसर्जनप्राप्त्यर्थत्वेन गत्यर्थत्वात् , खाद्यद्योराहारार्थत्वात् , ह्वाशब्दायक्रन्दाश्च शब्दकर्मकत्वात्कर्मत्वे प्राप्ते प्रतिषेधार्थ न्यादिवर्जनम् ।। भक्षेः हिंसायाम् ।। अणिकर्ता णौ कर्मेत्यनुवर्तते । ननु गतिबोधेतिसूत्रेणाणिकर्तुरो कर्मत्वं विधीयते, न तु णौ कर्तुरिति भक्षेः प्राप्तेरेवाभावान्नियमोऽयं व्यर्थ इति चेन्न, प्रयोक्तव्यापारार्थकणिगन्ते कर्मणो विधीयमानत्वेनाणिगित्यत्र णिगोऽपि प्रयोजकव्यापारार्थकस्यैव ग्रहणान्न तु स्वार्थिकस्य, तेन चुरादिणिजन्तेऽपि भक्षयतेराहारार्थत्वात्प्राप्तेऽस्य सूत्रस्य नियामकत्वात् । सस्यादिवनस्पतीनां चेतनत्वात्तद्भक्षणे परकीयसस्यभक्षणे तत्स्वान्युपघाताद्वा हिंसात्र बोध्या । आहारार्थत्वात्प्राप्ते नियमार्थ वचनम् , सिद्धे सत्यारम्भो नियमार्थ
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy