SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६८ सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य कर्म येषान्ते नित्याकर्माणः । गत्यर्थबोधार्थाहारार्थानां शब्दकर्म्मणां नित्याकर्म्मणाञ्च नीखाद्यदिहाशब्दायकन्दिवर्जानां धातूनामणिक्कर्त्ता स णौ सति कर्म स्यात् । गमयति चैत्रं ग्रामम् बोधयति शिष्यं धर्म्मम्, भोजयति बटुमोदनम् । जल्पयति मैत्रं द्रव्यम्, अध्यापयति बटुं वेदम् । शाययति मैत्रं चैत्रः । गत्यर्थादीनामिति किम् ? पाचयत्योदनं चैत्रेण मैत्रः । न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूर्ण मैत्रेण, आदयत्योदनं सुतेन, हाययति चैत्रं मैत्रेण, शब्दाययति बटुं कर्म येषान्ते नित्याकर्माणः, ततो द्वन्द्वस्तेषाम्, नीश्च खादिश्चादिश्च ह्रा च शब्दायश्च क्रन्द् च, ततो नञ्समासस्तेषाम् | अणिक्कर्त्ता णौ, कर्मेति पदानि वर्तते । अर्थशब्दस्य प्रत्येकमन्वय: । गतेः स्वरूपमाह गतिरिति, बोधाहारयोः प्रसिद्धत्वान्न तत्स्वरूपमुक्तम्, कर्मशब्दस्य क्रियार्थकत्वं व्याप्यार्थकत्वञ्च विवक्षितमिति दर्शयति, शब्द इति । ह्रादीनां प्रतिषेधविधानाच्छन्दशब्देनोभयार्थविवक्षणात् । गच्छति चैत्रो ग्राममित्यत्र कर्ता चैत्रः, स णौ सति गमयति चैत्रं ग्राममित्यादौ कर्म भवति । ग्रामकर्मकगमनानुकूल चैत्राश्रयकव्यापारानुकूलो मैत्रकर्तृको व्यापार इति बोधः । शिष्यो धर्मं बुध्यत इत्यत्र बोधार्थे कर्ता शिष्यो णौ 1 सति बोधयति गुरुः शिष्यं धर्ममित्यादौ कर्म भवति । प्रेषणाध्येषणादिना प्रयोजकव्यापारेण णिगन्तवाच्येनाऽणिक्कर्त्तर्व्याप्यत्वात्कर्मसंज्ञा सिद्धैव, तथापि नियमार्थं वचनम् । प्रयोजकव्यापारेण व्याप्यमानस्य गत्यर्था - दिसम्बन्धिन एव प्रयोज्यस्य कर्तुः कर्मसंज्ञा भवतीति, तेनान्यधातुसम्बन्धिनः कर्तृत्वमेव । जल्पयति मैत्रं द्रव्यमिति शब्द क्रियस्योदाहरणम, मैत्रो द्रव्यं जल्पति, तद्बोधकवाक्यानि कथयति, देवदत्तः प्रेरयतीति देवदत्तो मैत्रं द्रव्यं जल्पयति । शब्दव्याप्यस्य त्वधीते बटुर्वेदं तमन्यः प्रेरयतीत्यध्यापयति बटुं वेदम्, अत्र शब्दो न धात्वर्थक्रियारूप: किन्तु धात्वर्थस्य कर्मेति भेदः । शब्दकर्मेत्यत्र कर्मपदेन 1
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy