SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवचूरिपरिष्कारसहितायाम् । १६७ " " मणिकर्त्ता णौ ॥ ४ ॥ अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्त्ता स णिगि सति कर्म वा स्यात् । पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा ॥ गतिबोधाहारार्थशब्दकर्मनित्याऽकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् || ५ || गतिर्देशान्तरप्राप्तिः । शब्दः कर्म्म क्रिया व्याप्यञ्च येषान्ते शब्दकर्माणः । नित्यं न विद्यते किन्तु गां दोग्धि पयः क्षारयतीत्यत्र गोः पय आदत्ते इत्यर्थादपादानत्वं प्राप्नोतीति चेन्न अवधित्वाद्यविवक्षायां क्रियानिमित्तभावमात्रेण तद्व्याप्यत्वस्य विवक्षितत्वात्पूर्वेणैव सिद्धेः । अवधित्वादिविवक्षायान्त्वपादानत्वमेव गोः दोग्धि पय इत्यादि । वा, न विवक्षितं कर्म येषान्तेषाम्, न णिग् अणिग्, अणिगि कर्ता अणि - कर्ता, णौ ॥ कर्मेति वर्तते । अकर्माणो द्विविधाः नित्याकर्माणः. अविवक्षितकर्माणश्च । अत्र त्वविवक्षितकर्मणामेव ग्रहणं नित्याकर्मणामुत्तरसूत्रे उपादानात् । पचति चैत्रः अत्र चैत्रोऽणिक्कर्त्ता, पचिरप्यविवक्षितकर्मा, ततो णिगि सति पाचयति चैत्रं चैत्रेण वा, अनेन सूत्रेण चैत्रस्य वा कर्मत्वम् । पक्षे 'हेतुकर्तृकरणे ति कर्तरि तृतीया । न च प्रयोज्यकर्तुत्रस्य प्रयोजकव्यापारेण व्याप्यमानत्वात्कर्मसंज्ञया पक्षे कथं कर्तरि तृतीयेति वाच्यम्, प्रयोज्यो हि स्वस्वातन्त्र्यमपरित्यजन्नेव प्रयोजकव्यापारे पारतन्त्र्यं लभते न हि प्रयोजकेनास्य स्वातन्त्र्यस्वण्डना क्रियते, अतः प्रयोज्ये चैत्रे प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनावस्थानात्तृतीया सिद्ध्यति । नन्वोदनं पचतीत्यादिप्रयोगदर्शनात्कथमविवक्षितकर्मत्वं पचादेः, मैवम् शब्दप्रयोगस्य परार्थत्वेन यावती जिज्ञासा परस्य, तावत एव शब्दप्रयोगस्यावश्यकत्वात्, किं करोति चैत्र इति क्रियामात्रजिज्ञासायां चैत्रः पचतीतिप्रयोगादविवक्षितकर्म्मता || गतिश्च बोधव आहारश्च गतिबोधाहाराः अर्थो येषान्ते, शब्दः कर्म येषान्ते शब्दकर्माणः, नित्यं न विद्यते 9
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy