SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य दुःखार्तस्य वा वरं विषभक्षणमेवेति मन्यमानस्य विषभक्षणस्यापीप्सि. तत्वात्, उदासीनमप्युपसर्पणादिवेलायामीप्सितमेवान्यथोपसर्पण क्रिया. विषयत्वमेव नोपेयादित्येवमन्यत्रापि विचार्यम् । पुनस्तत्कर्म द्विविधं प्रधानेतरभेदात् , तञ्च द्विकर्मकेषु धातुषु दुहिभिक्षिरुधिप्रच्छिचिङ्गटब्रुङ्कुशास्वर्थेषु याचिजयतिप्रभृतिषु च भवति । गां दोग्धि पय इत्यादीन्युदाहरणानि, यदर्थं क्रियाऽऽरभ्यते तत्प्रधानं कर्म, यथा पयः प्रभृति, तत्सिद्धये तु क्रियया यदन्यद्व्याप्यते तद्गौणं यथा गवादि । यदा तु पयोऽर्था प्रवृत्तिर्न विवक्ष्यते तदा मुख्याऽसान्निध्याद्वादेरेव मुख्यता, यथाऽऽश्चर्यो गवां दोह इति । एवम्भूता धातवोऽन्तर्भूतणिजाः, एषां प्रयोगे गां दोग्धि पय इत्यादौ कर्तृव्याप्यं कर्मेत्यनेनैव गवादीनामपि कर्मसंज्ञा सिद्धा । तथाहि, गौः पयः क्षरति, देवदत्तस्तां क्षरन्ती क्षारयतीति दुहेरर्थः, तत्र क्षरणोपसर्जनस्य क्षारणस्य शब्दार्थत्वाद्गौरेव प्रधानं कर्म, क्षरणेनाप्यमानत्वात्पयः कर्म, क्षारणेनाप्यमानत्वाद्गौः, यद्यप्यर्थरूपेण पयः प्रधानभूतं तदुपायभूतस्तु गौः, तथापि गौः पयो दोग्धव्या दुग्धा सुदोहेति वा, प्रथमान्ततया गवादेरुपादानाच्छब्दरूपेण प्रधानभूतो गवादिः । तत्र दुहादीनामप्रधाने कर्मण्येव त्यादिकृत्यखलाः प्रत्यया भवन्ति, यथा गौर्दुह्यते दुग्धा दोह्या वा पय इति । नीवहिहरतिप्रभृतीनान्तु प्रधाने कर्मणि कर्मजः प्रत्ययो भवति, यथा नीयते नेतव्या नीता वा प्राममजेत्यादि । गत्यर्थानामकर्मणाश्च णिगन्तानां प्रधाने एव कर्मणि, यथा गमयति मैत्रं ग्रामम् । बोधाहारार्थशब्दकर्मणान्तु णिगन्तानामुभयत्र, यथा बोधयति शिष्यं धर्मम् , बोध्यते शिष्यो धर्मम् , बोध्यते शिष्यं धर्म इति वा । अजां ग्रामं नयति प्रापयतीत्यर्थः, अत्रापि पूर्वेणैव कर्मत्वं प्रापणेन प्रधानेन सम्बन्धा. दजा प्रधानं कर्म इति । ननु वास्तवरूपेण पय आदेः प्राधान्याद्वादेः परार्थत्वात्क्रियायोगाभावान व्याप्यत्वमिति कर्मसंज्ञा न सिद्ध्यति,
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy