SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । १६५ लक्षणं फलं तत्काशादिप्रकृतिकर्मण्यस्ति, विकृतिकर्मणि कटादौ च क्रियानिर्वाह्योत्पत्त्याश्रयत्वं वर्तत इति लक्षणसङ्गतिः । तत्र कचिस्काष्ठतण्डुलादिनाशाद्भस्मौदनादि सम्पद्यते, कचिद्धर्मिणः सत्त्वेऽपि गुणान्तरोत्पत्त्या कटसन्दर्भादि निष्पद्यते । तथा च काष्ठं भस्म करोतीत्यत्र कृधातोः प्रतियोगित्वविशिष्टनाश उत्पत्तिश्चेति फलद्वयम् । तदनुकूलव्यापारः धातोरर्थः, नाशे प्रतियोगितया काष्ठस्य, उत्पत्तौ चाघेयतया भस्मनोऽन्वयात् , काष्ठप्रतियोगिकनाशानुकूलो भस्मोत्पादको वर्तमानो व्यापार इति बोधः । विकार्यत्वस्येहशत्वे च काष्ठं दहतीत्यादेः काष्ठं विकुर्वन्भस्मोत्पादयतीत्यर्थः । ओदनं पचतीत्यस्य विकृित्त्या निवर्तयतीत्यर्थः । तण्डुलान्पचतीत्यस्य तण्डुलान्विक्लेदयतीत्यर्थः । प्राप्यमिति, क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति क्रियाजन्यफलाश्रयत्वं प्राप्यत्वम् । निर्वर्यादावतिव्याप्तिवारणायः . सत्यन्तम् । क्रियाजन्यफलानाश्रयेऽतिव्याप्तिवारणाय विशेष्यम् । आदित्यं पश्यति, ग्रामं यातीत्यादौ क्रियाप्रयोज्योऽसाधारणो धर्मः कश्चिदत्र नास्ति, सन्दर्शनगमनक्रियया कश्चिदसाधारणो धर्मो नादित्यग्रामादाववधार्यत इति क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वमादित्ये ग्रामे च वर्तते, केवलं तत्र क्रियासम्बन्धमानं लक्ष्यत इति क्रियाजन्यफलाश्रयत्वमस्तीति लक्षणसमन्वयः । न च ग्रामादौ गमनक्रियाजनितः संयोगविशेषोऽस्तीति वाच्यम् , नगरस्य महापरिमाणत्वेन सतोऽपि संयोगस्यालक्ष्यमाणत्वात् । पुनरप्येकैकं विधा, यदवाप्तुं क्रियाऽऽरभ्यते तदिष्टं कटं करोतीत्यादि । यद्विष्टं प्राप्यते तदनिष्टं यथा विषमत्ति, यत्र नेच्छा न च द्वेषस्त दनुभयम् , यथा ग्रामं गच्छन्तृणं स्पृशतीति । नन्वनिष्टोदासीनयोः कर्मणोः क; यद्विशेषेणाप्तुमिष्यत इति यल्लक्षणमुक्तं तदव्याप्तम् , उच्यते, स्वाम्यादिभयपीडितस्य व्याधि
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy