SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १६४ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य प्राप्यश्च । कटं करोति, काष्ठं दहति ग्रामं याति ॥ वाऽकर्मणाकर्मता । जानातीत्यत्राव रणभङ्गरूपधात्वर्थफलाश्रयत्वात्प्राप्यं कर्मत्वम् । अतीतानागतादिपरोक्षस्थले आश्रयाभावेऽपि ज्ञानजन्यस्यावरणभङ्गस्यावश्यकता, अन्यथा यथापूर्वं न जानामीत्यापत्तेः, अतीतादेस्तदाश्रयत्वञ्च यथा नैयायिकैरनुभवानुरोधादतीतादौ विषयतया ज्ञानाश्रयत्वं स्वीक्रियते, तथा सत्कार्यवादाङ्गीकाराद्वोपपद्यत इति । पयसा ओदनं भुङ्क्त इत्यत्र पयसः करणत्वस्यैव विवक्षणेन प्रकृतधात्वर्थफलाश्रयत्वेनाविवक्षणाञ्च न कर्मत्वम्, फलत्वञ्च कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यता निरूपितप्रकारताश्रयतद्धात्वर्थत्वम् । पश्य ! मृगो धावतीत्यादौ धावनादेः फलत्ववारणाय तद्धात्विति, अन्यथा प्रधानानुरोधिकर्मत्वस्य बलवत्त्वान्मृगस्य कर्तृत्वं न स्यात् । निर्वर्त्यमिति, प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति निष्पाद्यत्वं निर्वर्त्यत्वम् । यथा कटं करोति, अत्र कटस्य प्रकृतिः काशः, काशानां सत्वेऽपि तद्वाचकपदमत्र न विवक्षितमतः प्रकृतिवाचककाशपदासमभिव्याहृतपदं कटपदम् । तदुपस्थाप्यत्वं कटे, निष्पाद्यत्वमपि तत्रैवेति कटः निर्वत्य कर्म उच्यते । यदा च प्रकृतेः परिणामित्वेन विवक्ष्यते यथा मृदा घटं करोति, काशैः कटं करोतीति, तदा घटादिर्विकार्य कर्म भवति । निष्पाद्यत्वमात्रन्तु विकार्यकर्मण्यपि वर्ततेऽतः सत्यन्तम् । निर्वृत्तिरसत उत्पत्तिरूपा वा, सत एवाभिव्यक्तिरूपा वेत्यन्यदेतत् । विकार्यमिति, प्रतीयमानप्रकृति विकृतिभावकत्वे सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्प त्यन्यतरफलवत्त्वं विकार्यत्वम् । यथा काष्ठं दहति, काशान् कटं करोति, कुसुमानि स्रजं करोति, सुवर्णं कुण्डलं करोति, मृदं घटं करोति, काष्ठं भस्म करोति, तण्डुलानोदनं पचतीत्यादौ काशादिकटायोः प्रकृतिविकृतिभावः प्रतीयते, क्रियानिर्वाह्यं यद्विशिष्टासत्त्व : -
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy