________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
१६३
C
मिष्यते तत्कारकं व्याप्यं कर्म च स्यात् । तत् त्रेधा निर्वर्थं विकार्य अग्नेर्माणवकं वारयतीत्यत्र संयोगानुकूलव्यापाराभावानुकूलव्यापारो वारयतेरर्थः, कर्तृगतेत्यनुपादानेऽग्न्यादावतिव्याप्तिः स्यात्, प्रकृतधात्वर्थ संयोगानुकूलव्यापारोऽपि तत्प्रयोज्यतद्व्यधिकरण प्रकृत धात्वर्थफलं - संयोगः, तदाश्रयत्वस्याग्नौ सत्त्वात् । चैत्रो प्रामं गच्छतीत्यादौ चैत्रेऽतिव्याप्तिवारणाय तद्व्यधिकरणेति कर्तृगतप्रकृतधात्वर्थव्यापारः - उत्तरदेश संयोगानुकूलो व्यापारः, तत्प्रयोज्यप्रकृतधात्वर्थभूतं फलं - संयोगः, तदाश्रयस्य चैत्रे सत्त्वात् तद्वधिकरणेत्युक्तौ तु तादृशसंयोगानुकूलव्यापारानधिकरणवृत्तित्व विशिष्ट प्रकृतधात्वर्थभूतसंयोगाश्रयत्वस्य ग्राम एव सद्भावान्नातिप्रसङ्गः । माषेष्वश्वं बध्नातीत्यादौ माषादावतिप्रसङ्गवारणाय प्रकृतधात्वर्थत्वं फलस्य विशेषणतयोपात्तम् । प्रकृतधातुर्बन्धधातुस्तदर्थो देशान्तरसवार विरोधिशङ्कादिसंयोगानुकूलव्यापारस्तत्प्रयोज्यं फलं गलाधरसंयोगोऽपि तदाश्रयत्वं माषाणामिति । फले प्रकृतधात्वर्थविशेषणे तु गलाधस्संयोगो न प्रकृतधात्वर्थफलभूत इति विकित्तिरूपफलस्यापि व्यपदेशिवद्धावेन फलाश्रयत्वात्कर्मत्वम्, अत एव तत्समानाधिकरणे स्तोकं पचतीत्यादौ कर्मत्वसिद्धिः । एवञ्च कर्मणि विहितद्वितीयायाः कर्मत्वशक्तिमानर्थः । तत्र च प्रकृत्यर्थो विशेषणम्, विशेष्यं धात्वर्थः, एवञ्च हरिं भजतीत्यादौ हरिरूपं यत्कर्म तन्निष्ठशक्तिनिरूपकप्रीत्यनुकुलो व्यापार इति बोधः । प्रीत्यनुकूलो व्यापारश्च भजेरर्थः, एवं सर्वविभक्तीनां तत्तत्कारकशक्तिमद्धर्मिबोधकत्वं विज्ञेयम् । अन्ये तु फलाश्रयः कर्म, तत्र फलस्य धातुना लाभादाश्रयो द्वितीयार्थः । हरिं भजतीत्यत्र च हरिवृत्याश्रयतानिरूपकप्रीत्यनुकूलो व्यापार इति बोधः । एवमग्रेऽपीति वदन्ति । कटं करोतीत्यत्रोत्पत्स्याश्रयत्वान्निर्वत्य कर्मत्वमुत्पत्तेर्धात्वर्थत्वात् । ओदनं पचतीत्यादौ विकृित्याश्रयत्वाद्विकार्य
"
·