SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १६२ सिद्धहेम लघुवृत्तौ [ द्वितीयाध्यायस्य कृतः ॥ कर्त्तुव्र्व्याप्यं कर्म ॥ ३ ॥ कर्त्रा क्रियया यद्विशेषेणाप्तुभवन्ति, अर्थबोधार्थं हि शब्दः प्रयुज्यते लोके, सोऽर्थो यदि शब्दान्तरेणोक्तः 5: स्यात्तदा किमिति शब्दान्तरप्रयोगेणेति ॥ कर्तुरिति कर्तरीतिसूत्रेण तृतीयाप्राप्तौ कर्तरि षष्ठी, व्याप्यम्, कर्म ॥ कर्तृशब्दा सम्बन्धिशब्दत्वेनागृहीतामपि कर्तृप्रतियोगिकां क्रियामाक्षिपतीत्याहकर्ता क्रिययेत्यादि, कर्ता च किञ्चिदपि प्राप्तुं क्रियामन्तरेण न समर्थों भवतीत्याक्षिप्तक्रिया करणत्वेनोपतिष्ठते । तथा चाप्तिश्चात्र सम्बन्धः, स च समुपस्थितत्वात्कर्तृपदार्थविशेषणीभूतव्यापारद्वारक एव । एवन कर्त्रा स्वनिष्ठव्यापारप्रयोज्यफलेन विशेषेण सम्बद्धमिष्यमाणमित्यर्थः । ततश्च तण्डुलं पचतीत्यादौ पच्यादिक्रियया कर्त्रा यद्विशेषेणाप्तुमिष्यते तण्डुलादिकं तत्कारकं कर्मेत्यर्थः । देवदत्तवृत्तिपच्यादिक्रियाप्रयोज्य विलित्तिरूपफलाश्रयत्व प्रकार के च्छाविषयत्वात्तण्डुलं कर्म भवतीति तात्पर्यम् । विशेषेणाप्तुमिष्यत इति व्याप्यमित्यस्यार्थः । कर्ता च क्रियया निर्वर्तयितुं गुणान्तराण्यापादयितुं विषयीकर्तुं वा क्रियया कर्माप्तुमिष्यते । अत एव कर्म निर्वस्य विकार्यं प्राप्य - वेति त्रिविधम् । कर्तुः करणादेः प्राप्तीच्छाविषयत्वमस्ति, तथापि न विशिष्ठेच्छा विषयत्वं तस्य, कर्म सिद्ध्यर्थमेव तदुपादानात् । अत एवोक्तं विशेषेणाप्तुमिष्यत इति । माषेष्वश्वं बध्नातीत्यादौ कर्मणाश्वेन भक्षणक्रिययाप्तुमिष्यमाणे माषादावतिप्रसङ्गवारणाय कर्तुरित्युक्तं तथा च न माषा बन्धनकर्तृव्याप्याः । व्याप्यं कर्म चेति विधेयमुक्तं तस्यायं भात्रः यस्य व्याप्यं प्रसिद्धं तस्य तदनुवादेनाप्रसिद्धं कर्म लक्षणेन विधीयते, यस्य तु कर्म एव प्रसिद्धं तस्य तदनुवादेनाप्रसिद्धं व्याप्यं लक्षणेन विधीयते यस्य चोभयमप्रसिद्धं तस्योभयमपि विधीयत इति । अत्र कर्तृगतप्रकृतधात्वर्थ प्रधानीभूतव्यापारप्रयोज्य तद्व्यधिकरणप्रकृतधात्वर्थफलाश्रयत्वेन कर्तुरुद्देश्यत्वं कर्म्मत्वमिति केचित् । , "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy