________________
द्वितीयपाद: ]
- अवचूरिपरिष्कारसहितायाम् ।
मित्यपि लक्षणम् । ननु करणादीनामपि स्वस्वव्यापारे स्वातन्त्र्यान्न कस्यचित्प्रधानतेति चेन्न, सर्वेषां हि साधनानां कर्ता प्रवर्तयिता भवति । कर्ता तु करणादिप्रवृत्तेः प्रागेवार्थित्वादेर्निमित्तान्तरात्सामर्थ्यमासादयति । फलकामो हि कर्ता करणादीनुपार्जयते, अतः स पूर्वमेव शक्तिमान्समर्थः । करणादीनां तु कर्तृविनियोगादेव स्वव्यापारे स्वातन्त्र्यम् । कर्ता च साधनान्यात्माधीनतामापादयति। तदायत्तव्यापाराणि च तानि । फलमर्थ्यमानेन च कर्त्रातिशयवृत्तानि करणादीनि निवर्त्यन्ते, कर्त्ता तु फलप्राप्तौ स्वयमेव निवर्तत इति तस्य स्वातंत्र्यम् । तथा चोक्तहेतुभिः कर्तुः करणापेक्षया क्रियासिद्धौ विप्रकृष्टोपकारकत्वेऽपि प्रधानत्वात्कर्तृसंज्ञा, न तु स्वव्यापारे स्वतन्त्र्यभूतस्यापि करणादेः । तच्च कर्तृत्वं क्वचिदारोपितं कचिच्चानारोपितम् । स्थाली पचतीत्यादौ प्रथमम्, चैत्रः पचतीत्यादौ द्वितीयम् । यदा यदीयो व्यापारो धातुनाभिधीयते तदा स कर्त्तेत्यपि लक्षणम् । अत्र कल्पे नारोपितत्वानारोपितत्वभेद इति दिक् । मैत्रेण कृत इति, अयं घट इति शेषः । कृत इत्यत्र कर्मणि क्तः, मैत्रेणेत्यत्र "हेतुकर्तृकरणेत्थम्भूतलक्षण" इति तृतीया । घट इत्यत्र तु (6 नाम्नः प्रथमैकद्वित्रहावि" ति प्रथमा । कृधानोरुत्पत्त्यनुकूलव्यापारोऽर्थः । घटपदोत्तर प्रथमायाः कर्मत्वमर्थः । मैत्रेणेत्यत्र तृतीयायाः कर्तृत्वमर्थः । तत्र कर्तृत्वं प्रकृतधातूपात्तप्रधानीभूतव्यापाराश्रयत्वम् एवञ्च व्यापारांशस्य धातुलभ्यत्वादाश्रयत्वमात्रं तृतीयार्थः । तथा च मैत्राऽभिन्नाश्रयको घटकर्मकोत्पत्यनुकूलो व्यापार इति धात्वर्थमुख्यविशेष्यकः शाब्दबोधः । ननु घटो हि कर्म, एवञ्च 'कर्म्मणी' ति द्वितीया स्यादिति चेन्न, त्यादि - कृत्तद्धितसमासैः कर्मणः कर्तुर्वाभिधानेन द्वितीयाद्ययोगात् । लोकशास्त्रयोरभिहितेऽर्थे शब्दप्रयोगायोगात् । अतो घटः क्रियत इत्यादौ कर्मादिशक्तीनां त्यादिनोक्तत्वात्तदभिधायिन्यो द्वितीयादिविभक्तयो न
,
२१
१६१