________________
१६०
सिद्धहेमलघुवृत्तौ
[ द्वितीयाध्यायस्य
|| २ || क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः स कर्त्ता स्यात् । मैत्रेण
"
त्वात् क्रियासिद्धौ हि तेन प्रयुज्यते करणादीनि कर्ता त्वनन्य प्रयोज्यः स्वतन्त्र इत्युच्यते । क्व स्वतन्त्र इत्याशङ्कायामाह - क्रियाहेतुः क्रियासिद्धौ स्वप्रधान इति । कारकाधिकारात्क्रियाहेतुरिति लभ्यते, तथा च क्रियासिद्धौ स्वातन्त्र्येण विवक्षितो यः कारकविशेषः सः कर्ता स्यादिति भावः । वृत्तेः यथाश्रुतार्थश्च धात्वर्थकारकाप्रयोज्यं यद्धात्वर्थनिरूपितकारकत्वं तदाश्रयः । चैत्रः पचतीत्यादौ पचधात्वर्थ कर्मादिकारकतण्डुलाद्यप्रयोज्यं यत्पचधात्वर्थनिरूपितकारकत्वं तदाश्रयत्रो भवति, परन्तु स्थाली पचतीत्यादौ स्थाल्यादेः कर्तृत्वं न स्यात्, स्थाल्यादिनिष्ठक्रियाजनकत्वस्य चैत्रादिरूप प्रकृत धात्वर्थनिरूपितकर्तृप्रयोज्यत्वात्, अतः स्वार्थनिरूपित कारकत्वेन विवक्षिताप्रयोज्यं यत्स्वार्थनिरूपितकारकत्वं तदाश्रय इत्यर्थः कर्तव्यः । पाककर्तृत्वेन चैत्रादेरविवक्षितत्वात्स्थाल्यादेः कर्तृत्वमुपपद्यते । न च काष्ठैः स्थाली पचतीत्यादौ काष्ठादेः कर्तृत्वं स्यात् काष्ठादिव्यापारस्य स्थाल्यादिव्यापाराप्रयोज्यत्वादिति वाच्यम्, कर्तृप्रत्ययसमभिव्याहारे धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयत्वे सति तद्धात्वर्थाश्रयत्वस्यैव स्वातन्त्र्यपदार्थत्वात्तस्यैव च कर्तृत्वादित्यन्ये । पक्कस्तण्डुलो देवदत्तेनेत्यादी फलस्य विशेष्यत्वेन देवदत्तेऽव्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इत्युक्तम्, तत्र फलमुख्य विशेष्य व शाब्दबोधाङ्गीकारात् । गोः पयो दोग्धि चैत्र इत्यत्र विभागावच्छिन्नक्षरणानुकूलव्यापारस्य दुधात्वर्थत्वात् धात्वर्थनिष्ठप्रकारतानिरूपित विशेष्यत्वमात्रोक्तौ क्षरणेऽतिव्याप्तिः, अतो धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताऽनाश्रयत्वनिवेशः । ण्यन्तजन्यशाब्दबोधे प्रयोज्यव्यापारस्य प्रयोजकव्यापारविशेषणत्वात्तत्र णिप्रकृतिकधात्वर्थस्य प्राधान्यव्यवहारो न स्यादिति धातौ तत्त्वनिवेशः । तत्तद्धात्वर्थकारकचक्रप्रवर्तकत्वं कर्तृत्व
"
·
·