________________
द्वितीयपादः ] . अवन्त्रिपरिष्कारसहितायाम् । १५९ श्रितव्यापारस्य हेत्वादेः कारकसंज्ञा न स्यात् ।। स्वतन्त्रः कर्ता एव निर्देशः कृतः स्यान्न तु विशिष्टसंज्ञिनः । तथा च ग्रामस्य समीपादागच्छतीत्यादावकारकस्य ग्रामस्यापादानसंज्ञा स्यात् । न चात्र मामो नापाययुक्तः किन्तु समीपमतो न दोष इति वाच्यम् , ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ पुत्रवद् ब्राह्मणस्याप्यप्रधानप्रयुक्तकर्मसंज्ञाप्रसङ्गादतः क्रियाहेतुरिति विशिष्ट संज्ञिनो निर्देशः कृतः । द्वितीयादिवत्प्रथमापि कारकविभक्तिरेव, क्रियायोगस्य तत्रापि सत्त्वादन्ततोऽस्तिक्रियायाः सर्वत्र सद्भावात् , आख्यातार्थकादिनाऽभेदान्वयेन तष्टारको क्रियायोगो बोध्यः । अन्ये तु प्रकृत्यर्थस्य साक्षास्क्रियायोगेन प्रथमादिविभक्तीनां कारकविभक्तित्वं? परम्परया तद्योगेन वा ? नाद्यः, प्रथमाप्रकृत्यर्थस्याश्रयाभेदद्वारकव्यक्तित्वसम्बन्धेन क्रियायामन्वयेन प्रथमायाः कारकविभक्तित्वानापत्तेः, नान्त्यः, माणवकस्य पितरं पन्थानं पृच्छतीत्यादौ माणवकपदोत्तरषष्ठया अपि कारकविभतित्वापत्तेः, परम्परया तद्योगस्य सत्त्वात् । न च क्रियानिष्ठविशेष्यतानिरूपित संसर्गानवच्छिन्नप्रकारताप्रयोजकत्वमेव कारकविभक्तित्वमिति विवक्षणेनाभेदस्य संसर्गत्वाभावेन प्रथमायाः संसर्गानवच्छिन्नप्रकारताप्रयोजकत्वेन षष्ठयाश्च जन्यजनकभावसंसर्गावच्छिन्नप्रकारताप्रयोजकत्वेनादोष इति वाच्यम् , सुन्दरस्य माणवकस्य पितरं पृच्छतीत्यादौ सुन्दरपदोत्तरषष्ठयाः कारकविभक्तित्वापत्तेः संसर्गानवच्छिन्नप्रकारताप्रयोजकत्वादिति चेन्न, क्रियानिष्ठविशेष्यतानिरूपितकर्मत्वादिषट्केतरसम्बन्धघटितसम्बन्धानवच्छिन्नप्रकारताप्रयोजकत्वस्य कारकविभक्तित्वस्वीकारेणादोषात् ॥ स्वतन्त्रः, कर्ता ॥ स्वतन्त्रशब्दो रूढिवचनः समासप्रतिरूपकः प्रधानार्थः, अवयवार्थस्तु घटनामात्ररूपः, स्वशब्दः आत्मवचनः, तन्त्रशब्दः प्रधानार्थः । स्वमात्मा तन्त्रं प्रधानमस्य, करणादीनां हि परः कत्र्तव तन्त्रं प्रधानमप्रयोज्य