SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १५८ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य कारकं स्यात् । करोतीति कारकमित्यन्वर्थाश्रयणाच्च निमित्तत्वमात्रेणानाद्विचित्रानेककार्योपपत्तेः, क्वचिच्छक्तयाविष्टद्रव्यस्याऽपि साधनत्वेन व्यवहारः दण्डो घटसाधनमित्येवंरूपः, शक्तिशक्तिमतोरभेदस्यापि सत्त्वात् । शक्क्या करोतीत्यादौ शक्तेरपि द्रव्यायमाणतया शक्त्यन्तरयोगः । अत्र कर्तृकर्मणोः स्वाश्रयसमवेतक्रियाजनकता, यथा चैत्र आस्ते, ओदनं पचति, करणादीनामाश्रयान्तरसमवेतक्रियाजनकता, यथा दण्डेन घटं करोतीत्यादि, न हि करणादिषु क्रिया समवैतीति न तेषां स्वाश्रयसमवेतक्रियाजनकत्वम् , गौणक्रियापेक्षया तु सर्वेषां स्वाश्रयसमवेतक्रियाजनकत्वमेव, सर्वेषाश्च कारकाणां स्वस्वावान्तरक्रियाद्वारा प्रधानक्रियानिष्पादकत्वम् । न च सम्प्रदानासत्त्वेऽपि तज्ज्ञानमात्रेणैव तदुद्देशेन दानदर्शनात्सम्प्रदानस्य क्रियाजनकत्वाभावेन कारकत्वं न स्यादिति वाच्यम् , असन्निहितसम्प्रदानस्यापि दातृबुद्धिस्थत्वावश्यकत्वेन दातृज्ञानपूर्वकालकत्वेनैव जनकत्वात् , तावतैव दानक्रियानिष्पत्तेः । घटं करोति स्मरतीत्यादौ बौद्धघटादेः पूर्वकालत्वेन स्मृत्यादिनिष्पादकत्वमूह्यम् । ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वं पुत्रेणान्यथासिद्ध्या कारकत्वाभावात् । तच्च द्रव्यगतशक्तिरूपं कारकं द्रव्यसहजातं याव. द्रव्यमवस्थितञ्च, यथा शखादीनां विदारणशक्तेः सहजायाः यावद्रव्यभाविन्या अपि क्रियाकाले एवाभिव्यक्तिः, तथा कारकशक्तिरपि स्वकार्यनिष्पादनकाले एव प्रकाशते, प्रकाशकश्च न सिद्धस्वभावा र्थाभिधायी शब्दः, किन्तु यथायथं विभक्त्यादिः । ननु यत् क्रियाया निर्वतकं तत्कारकसंज्ञं भवतीत्युक्तौ हेत्वादेरपि क्रियानिर्वर्तकत्वेन कारकत्वप्रसङ्ग इति चेन्न, कारकमित्यन्वर्थसंज्ञाश्रयणेन क्रियानिर्वतकस्यैव कारकसंज्ञात्वात् , हेत्वादेश्व व्यापारमनाश्रित्य विवक्षितार्थसिद्धौ योग्यतामात्रेण निमित्तत्वात् । कारकमित्येतावन्मात्रोक्तौ संज्ञाया
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy