________________
॥ अथ द्वितीयाध्याये द्वितीयः पादः ॥
->> > क्रियाहेतुः कारकम् ॥ १॥ क्रियाया निमित्तं कर्नादि
क्रियाया हेतुः क्रियाहेतुः, करोतीति कारकम् ॥ संज्ञासूत्रमिदम् । कारकमिति संज्ञानिर्देशः, क्रियाहेतुरिति संज्ञिनिर्देशः । कारकमिति महासंज्ञाकरणात्करोतीति कारकमित्यन्वर्थसंज्ञा विज्ञायते । न चान्वर्थसंज्ञाश्रयणे कर्तुरेव स्वतन्त्रस्य कर्तृसंज्ञावत्कारकसंज्ञाऽपि स्यात्, न तु करणादीनां कर्तृपरतन्त्राणाम् । तथा च करणं कारकं सम्प्रदानं कारकमित्यादिव्यवहारो न स्यादिति वाच्यम् , करणादीनामपि स्वस्वव्यापारे स्वातन्त्र्यात्कारकत्वसिद्धेः, पच्या दि. धातूपात्तव्यापारे च पारतन्त्र्यात्करणत्वादिसम्भवाच्च । अत एव क्रियाहेतुरित्यत्र सामान्यभूता क्रिया ग्राह्मा, तस्या हेतुर्निवर्तकम् ! सर्वेषां हि कारकाणां क्रिया साध्यत्वेन साधारणी, ततश्च सर्वेषां तां प्रति कर्तृत्वम् । अत एव कर्ता कारकमिति प्रयोगोऽप्युपपद्यते । करोतीति कर्तेति व्युत्पादनेऽपि स्वतन्त्रः कर्तेति विधानात् स्वतः स्वातन्त्र्यमेव यस्य तस्यैव कर्तृत्वम् । कर्तृप्रत्ययान्तसिद्धा कारकसंज्ञा तु वस्तुतो विद्यमानमुद्भूतत्वेनाविवक्षितं स्वातन्त्र्यमाश्रित्य प्रवर्तते । अत एव कादि कारकमित्युक्तम् , तच्च कारकं द्रव्याणां सामर्थ्यरूपम् । द्रव्यस्य कारकत्वे तु तस्य स्वरूपेण सिद्धस्वभावत्वात् क्रियाया हेतुर्न स्यात् , तथा कार्यवैचित्र्यं नोपपद्येत, दृश्यते च घटं पश्य, घटेन जलमाहर, घटेन जलं निधेहीत्यादौ कार्यवैचित्र्यम् । न च शक्तिभेदेऽपि द्रव्य. स्यैकरूपत्वेन तत्रैकस्मिन्कथं कार्यवैचित्र्यं न बाधितमिति वाच्यम् , सर्वस्य द्रव्यस्य सर्वशक्तयाश्रयत्वेऽपि कदाचित्कस्याश्चिद्विवक्षया तत्त