________________
प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । १५५ योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ, साधौ, पितुः ॥ अवर्णादश्नोऽन्तो वाऽतुरीड्योः ॥ ११५ ।। भावर्जादवर्णात् परस्यातुः स्थानेऽन्तो वा स्यात् , ईङयोः । तुदन्ती, तुदती कुले स्त्री वा । एवं-भान्ती, भाती। अवर्णादिति किम् ? अदती । अश्न इति किम् ? लुनती ॥ इयशवः ॥ ११६ ॥ श्याच्छवश्च परस्याऽतुरीङयोः परयोरन्त इत्यादेशः स्यात् ॥ दीव्यन्ती, मिति धार्तराज्ञः । न वश्च मच वमो, वमावन्तौ यस्य, वमन्तश्चासौ संयोगश्च, तस्मात् ॥ अनोऽस्य लुगित्यनुवर्तन्ते । वमोः संयोगविशेषणत्वेन तदन्तत्वे लब्धेऽप्यन्तग्रहणं स्पष्टार्थम् । पर्वणेति,तत्र अनोऽस्येति लोपे प्राप्तेऽनेन निषेधः, वान्तसंयोगात्परत्वादेवमग्रे। हनः षष्ठी,हू च न च ह्न तस्य, नः प्रथमा ॥ भ्रूण हतवती भ्रूणघ्नी, 'ब्रह्मभ्रूणे'ति क्विप , 'नवा शोणादेरि'ति डीः 'अनोऽस्य' लुक् । घ्नन्तीति 'गमहनजने' त्यलोपः। वृत्रं हतवन्तौ वृत्रहणौ ।। लुग, अस्य,अञ्च एच्चादेत्तस्मिन् , न पदमपदं तस्मिन् ॥ अपद इति अदेतोर्विशेषणं 'सप्तम्या आदिः'। दण्डाग्रमिति, नन्वत्र वृत्त्यन्तोऽसषे इति प्रतिषेधादग्रमित्यस्य पदस्वाभावात्कथं नाकारलोपः ? सत्यम् , सावधारणत्वेन व्याख्यानादस्यापदे एवेति, अत्र तु वृत्तेः पूर्व पदत्वमासीत् ।। ड इदनुवन्धो यस्य, तस्मिन् , अन्त्यश्चासौ स्वरश्व, स आदिर्यस्य, तस्य ।। लुगिति वर्तते । अन्ते भवोऽन्त्यः । मुनावित्यादाविवर्णादेरिति प्राप्ते परत्वात्सेर्डावित्यादौ डकारोच्चारणसामर्थ्याच्च लुगेव । ' आ. द्यन्तवदेकस्मिन्निति न्यायेनेकारादीनां केवलानामपि व्यपदेशिवद्धावेनान्त्यस्वरादित्वं बोध्यम् । अवर्णाद , न ना अश्ना तस्मात् , अन्तः, वा, अतुः षष्ठी ईश्च ङीश्च तयोः ॥ तुदीत् व्यथने, तुदति तुदते इति वा, ‘शत्रानशा' शतृप्रत्ययः तुदादेरः। 'अधातू दित' इति स्त्रियां ङीः, क्लीवे औरीरनेन शतुरन्त इत्यादेशः, लुगस्यादेत्यपद इत्यलोपः । अतुरवर्णादित्यश्न इति च विशेषणात्तुदन्ती भान्ती